वैषम्यनैर्घृण्ये न ।
निर्देषाद्ब्रह्मणो जगत्सर्गं ब्रुवन् समन्वयो विषयः ।
स किं यो विषमकारी स दोषवानिति न्यायेन विरुध्यते न वेति सन्देहे पूर्वत्र लीलया यत्स्रष्टृत्वमुक्तं तदेव कर्मादिसापेक्षस्य न युक्तमनीश्वरत्वापत्तेः, निरपेक्षत्वे रागादिदोषापत्तेरित्याक्षेपसङ्गत्या पूर्वपक्षयति -
पुनश्चेत्यादिना ।
ब्रह्मैव जगत्कारणमिति जन्मादिसूत्रे प्रतिज्ञातोऽर्थः । पृथग्जनः पामरः, 'निरवद्यं निरञ्जनम्' इति श्रुतिः, 'न मे द्वेष्योऽस्ति न प्रियः' इति स्मृतिः । स्वच्छत्वादीत्यादिपदेन कूटस्थत्वाग्रहः, स्वच्छत्वादिश्चासावीश्वरस्वभावश्चेति विग्रहः ।
निमित्तमनपेक्ष्य विषमकारित्वे वैषम्यादिदोषः स्यात् , न त्वनपेक्षत्वमीश्वरस्यास्तीति सिद्धान्तयति -
एवं प्राप्त इत्यादिना ।
न च सापेक्षत्वे अनीश्वरत्वम् , सेवामपेक्ष्य फलदातरि राज्ञीश्वरत्वानपायात् ।