ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात्सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभागःइतीतरेतराश्रयत्वं प्रसज्येतअतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नामप्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् , नैष दोषःअनादित्वात्संसारस्य; भवेदेष दोषः, यद्यादिमान् संसारः स्यात्अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य प्रवृत्तिर्न विरुध्यते ॥ ३५ ॥

प्रथमसर्गस्य वैषम्यहेतुकर्माभावादेकरूपत्वं स्यात् , तथा तथा तदुत्तरकल्पानामपीत्याक्षिप्य समाधत्ते सूत्रकारः -

न कर्मेति ।

प्रथमसृष्टेः पश्चाद्भाविकर्मकृतं वैषम्यमित्याशङ्क्यान्योन्याश्रयमाह -

सृष्ट्युत्तरेति ।

आद्या सृष्टिरित्युपलक्षणम् । आदावेकरूपत्वे मध्ये विषमकर्मोत्पत्तौ हेत्वभावेनोत्तरसृष्टीनामपि तुल्यत्वस्य दुर्वारत्वादिति द्रष्टव्यम् । परिहारः सुगमः ॥३५॥