ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
उपपद्यते संसारस्यानादित्वम्आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात्; चेश्वरो वैषम्यहेतुरित्युक्तम् चाविद्या केवला वैषम्यस्य कारणम् , एकरूपत्वात्रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् कर्म अन्तरेण शरीरं सम्भवति, शरीरमन्तरेण कर्म सम्भवतिइतीतरेतराश्रयत्वप्रसङ्गःअनादित्वे तु बीजाङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवतिउपलभ्यते संसारस्यानादित्वं श्रुतिस्मृत्योःश्रुतौ तावत्अनेन जीवेनात्मना’ (छा. उ. ६ । ३ । २) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयतिआदिमत्त्वे तु प्रागधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत ? धारयिष्यतीत्यतोऽभिलप्येतअनागताद्धि सम्बन्धादतीतः सम्बन्धो बलवान्भवति, अभिनिष्पन्नत्वात्सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ (ऋ. सं. १० । १९० । ३) इति मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयतिस्मृतावप्यनादित्वं संसारस्योपलभ्यते रूपमस्येह तथोपलभ्यते नान्तो चादिर्न सम्प्रतिष्ठा’ (भ. गी. १५ । ३) इतिपुराणे चातीतानामनागतानां कल्पानां परिमाणमस्तीति स्थापितम् ॥ ३६ ॥

उपपत्तिसहितश्रुत्यादिकं प्रमाणमिति सूत्रव्याख्यया दर्शयति -

उपपद्यत इति ।

हेतुं विनैव सर्गाङ्गीकारे ज्ञानकर्मकाण्डवैयर्थ्यं स्यादित्यर्थः ।

ननु सुखादिवैषम्ये ईश्वरोऽविद्या वा हेतुरस्त्वित्याशङ्क्य क्रमेण दूषयति -

न चेश्वर इत्यादिना ।

कस्तर्हि हेतुः, तत्राह -

रागादीति ।

रागद्वैषमोहाः क्लेशास्तेषां वासनाभिराक्षिप्तानि कर्माणि धर्माधर्मव्यामिश्ररूपाणि, तदपेक्षा त्वविद्या सुखादिसर्गवैचित्र्यहेतुः । तस्मादविद्यासहकारित्वेन क्लेशकर्मणामनादिप्रवाहोऽङ्गीकर्तव्य इति भावः ।

किञ्च सृष्टेः सादित्वे प्रथमशरीरस्योत्पत्तिर्न सम्भवति, हेत्वभावात् । न च कर्म हेतुः, शरीरात्प्राक्कर्मासम्भवात् । तस्मात्कर्मशरीरयोरन्योन्याश्रयपरिहाराय सर्वैरेव वादिभिः संसारस्यानादित्वमङ्गीकार्यमित्याह -

न चेति ।

सर्गप्रमुखे सृष्ट्यादौ प्रागनवधारितप्राणोऽपि सन् प्रत्यगात्मा भाविधारणनिमित्तेन जीवशब्देनोच्यतामित्यत्राह -

न च धारयिष्यतीति ।

'गृहस्थः सदृशीं भार्यामुपेयात्' इत्यादावगत्या भाविवृत्त्याश्रयणमिति भावः । अस्य संसारवृक्षस्य स्वरूपं सत्यं मिथ्या वेत्युपदेशं विना नोपलभ्यते । ज्ञानं विनान्तोऽपि नास्ति । नाप्यादिरुपलभ्यते, असत्त्वादेव । न च सम्प्रतिष्ठा मध्ये स्थितिः, दृष्टनष्टस्वरूपत्वादिति गीतावाक्यार्थः । संसारस्यानादित्वेऽपि मिथ्यात्वात् 'एकमेवाद्वितीयम्' इत्यवधारणमुपपन्नम् । तस्मान्निरवद्ये ब्रह्मणि समन्वयाविरोध इति सिद्धम् ॥३६॥