ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
सर्वधर्मोपपत्तेश्च ॥ ३७ ॥
चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यःइदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरतियस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्तेसर्वज्ञं सर्वशक्ति महामायं ब्रह्मइति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति ॥ ३७ ॥

सर्वधर्मोपपत्तेश्च ।

निर्गुणस्य ब्रह्मणो जगदुपादनत्ववादिवेदान्तसमन्वयो विषयः स किं यन्निर्गुणं तन्नोपादानं यथा रूपमिति न्यायेन विरुध्यते न वेति सन्देहे, भवत्वीश्वरस्य विषमसृष्टिनिमित्तत्वं तत्प्रयोजकस्य कर्मणः सत्त्वात् , न तूपादानत्वं तद्व्यापकस्य सगुणत्वस्याभावादिति प्रत्युदाहरणेन प्राप्ते सिद्धान्तसूत्रतात्पर्यमाह -

चेतनमिति ।

विवर्तोपादानत्वं निर्गुणस्याप्यविरुद्धम् , अज्ञातत्वस्य भ्रमाधिष्ठानत्वप्रयोजकस्य सत्त्वात् , सगुणत्वं त्वव्यापकं शब्दादिगुणेषु नित्यत्वादिभ्रमदर्शनादिति भावः ।

यद्यपि सर्वज्ञत्वं सर्वशक्तित्वं च लोके कारणधर्मत्वेनाप्रसिद्धं तथापि यो यस्य कर्ता स तस्य सर्वस्य ज्ञाता शक्तश्चेति प्रसिद्धम् , ईश्वरस्यपि सर्वकर्तृत्वश्रवणात्प्रसिद्ध्यनुसारेणार्थान्निरतिशयसर्वज्ञत्वं सर्वशक्तित्वं च सिध्यतीत्यभिसन्धायाह -

सर्वज्ञं सर्वशक्तीति ।

महामायमिति ।

कर्तृत्वोपादानत्वकथने सर्वशङ्कापङ्कक्षालनायोक्तम् । तस्मादौपनिषदसिद्धान्ते न कश्चिद्दोष इति सिद्धम् ॥३७॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्पादकृतौ शारीरकमीमांसाव्याख्यायां भाष्यरत्नप्रभायां द्वितीयस्याध्यायस्य प्रथमपादः समाप्तः ॥१॥