साङ्ख्यतार्किकबौद्धाश्च जैनाः पाशुपतादयः ।
यस्य तत्त्वं न जानन्ति तं वन्दे रघुपुङ्गवम् ॥१॥
ब्रह्मणि सर्वधर्मोपपत्तिवत्प्रधानेऽपि तदुपपत्तिमाशङ्क्य निराचष्टे -
रचनानुपपत्तेश्च नानुमानम् ।
ननु मुमुक्षूणां वाक्यार्थनिर्णयप्रतिबन्धनिरासाय वेदान्तानां तात्पर्यं निश्चेतुमिदं शास्त्रमारब्धं तच्च निर्देषतया निश्चितम् , ततः परपक्षनिरासात्मकोऽयं पादोऽस्मिन् शास्त्रे न सङ्गतः, तन्निरासस्य मुमक्ष्वनपेक्षितत्वादित्याक्षिपति -
यद्यपीति ।
परपक्षनिराकरणं विनास्वपक्षस्थैर्यायोगात्तत्कर्तव्यमित्याह -
तथापीति ।
तर्हि स्वपक्षस्थापनात्प्रागेव परपक्षप्रत्याख्यानं कार्यमित्यत आह -
वेदान्तार्थेति ।
वेदान्ततात्पर्यनिर्णयस्य फलवज्ज्ञानकरणान्तर्भावादभ्यर्हितत्वम् ।
ननु रागद्वेषकरणत्वात्परमतनिराकरणं न कार्यमिति शङ्कते -
नन्विति ।
तत्त्वनिर्णयप्रधाना खल्वियं कथारब्धा,तत्त्वनिर्णयश्च परमतेष्वश्रद्धां विना न सिध्यति, सा च तेषु भ्रान्तिमूलत्वनिश्चयं विना न सिध्यति, स च इमं पादं विना नेति स्वसिद्धान्तसंरक्षणार्थत्वात्प्रधानसिध्यर्थत्वादयं पादोऽस्मिन् शास्त्रे सङ्गतः, सङ्गतत्वाद्वीतरागेणापि कर्तव्य इत्यभिसन्धायोक्ताङ्गीकारेण समाधत्ते -
बाढमित्यादिना ।
अपदेशेन व्याजेन । मन्दमतीनां तेषु श्रद्धानिमित्तानि बहूनि सन्तीति तन्निरासाय यत्नः क्रियत इत्यर्थः । स्वमतश्रद्धापरमतद्वेषौ तु प्रधानसिद्ध्यर्थत्वादङ्गीकृतौ । नाप्ययं द्वेषः । परपक्षत्वबुद्ध्या हि निरासो द्वेषमावहति न तु तत्त्वनिर्णयेच्छया कृत इति मन्तव्यम् ।
पौनरुक्त्यं शङ्कते -
नन्वीक्षतेरिति ।
पूर्वं साङ्ख्यादीनां श्रुत्यर्थानुग्राहकतर्कनिरासादश्रौतत्वमुक्तम् , सम्प्रति श्रुत्यनपेक्षास्तदीयाः स्वतन्त्रा युक्तयो निरस्यन्त इत्यर्थभेदान्न पुनरुक्तिरित्याह -
तदुच्यत इति ।