सिद्धान्तयति -
तत्र वदाम इति ।
किमनुमानैरचेतनप्रकृतिकत्वं जगतः साध्यते, स्वतन्त्राचेतनप्रकृतिकत्वं वा । आद्ये सिद्धसाधनता, अस्माभिरनादित्रिगुणमायाङ्गीकारात् । द्वितीये घटादिदृष्टान्ते साध्याप्रसिद्धिरित्याह -
यदीति ।
स्वतन्त्रमचेतनं प्रकृतिरित्येतद्दृष्टान्तबलेन तदा निरूप्येत यदि दृष्टान्तः क्वचित्स्यात् । न तु दृष्टः क्वचिदित्यन्वयः ।
स्वतन्त्रपदार्थमाह -
चेतनानधिष्टितमिति ।
परकीयस्य साध्यस्याप्रसिद्धिमुक्त्वा सत्प्रतिपक्षं वक्तुं यद्विचित्ररचनात्मकं कार्यं तच्चेतनाधिष्ठिताचेतनप्रकृतिकमिति व्याप्तिमाह -
गेहेति ।
इदं जगच्चेतनाधिष्ठिताचेतनप्रकृतिकम् , कार्यत्वात् , गेहवदिति प्रयोगः ।
विपक्षे विचित्ररचनानुपपत्तिरूपं सूत्रोक्तं बाधकतर्कं वक्तुं जगतो वैचित्र्यमाह -
तथेति ।
बाह्यं पृथिव्यादि भोग्यम् , आध्यात्मिकं शरीरादि च भोगाधिष्ठानमिति विभागः । प्रतिनियतोऽसाधारणोऽवयवानां विन्यासो रचना यस्य तदित्यर्थः । इत्थं विचित्रं जगच्चेतनानधिष्ठिता जडप्रकृतिः कथं रचयेत् । न कथमपीत्यर्थः ।
यच्चेतनानधिष्ठितमचेतनं तन्न कार्यकारीति व्याप्तिमुक्ततर्कमूलभूतामाह -
लोष्टेति ।
चेतनाप्रेरितेषु लोष्टादिषु कार्यकारित्वादर्शनादित्यर्थः ।
किञ्चानादिजडप्रकृतिश्चेतनाधिष्टिता, परिणामित्वात् , मृदादिवदित्याह -
मृदिति ।
ननु मृदादिदृष्टान्ते द्वयमप्यस्त्यचेतनत्वं चेतनाधिष्ठितत्वं चेति, तत्र परिणामित्वहेतोरचेतनत्वमेव व्यापकं मृदादिस्वरूपत्वेनान्तरङ्गत्वात् , न तु चेतनाधिष्ठितत्वं व्यापकम् , तस्य मृदादिबाह्यकुलालादिसापेक्षत्वेन बहिरङ्गत्वात् , तथा च परिणामित्वेऽपि मूलप्रकृतेरचेतनत्वधर्मेणैव योगो न चेतनाधिष्ठितत्वेनेत्याशङ्क्य निषेधति -
न चेति ।
महानसदृष्टान्तेऽन्तरङ्गस्यापि महानसस्वरूपस्य धूमव्यापकत्वं नास्ति तद्भिन्नस्य बहिरङ्गस्यापि वह्नेस्तदस्तीत्यन्तरङ्गत्वं व्यापकत्वे प्रयोजकं न भवतीति भावः ।
किञ्च यदचेतनं तच्चेतनाधिष्ठितमेव परिणमत इत्यङ्गीकारे बाधकाभावात्प्रत्युत श्रुत्यनुग्रहाच्च तथाङ्गीकार्यमित्याह -
न चैवं सतीति ।
सुखदुःखमोहान्वयादिति हेतोरसिद्धिद्योतनार्थं सूत्रे चकार इत्याह -
अन्वयाद्यनुपपत्तेश्चेति ।
नानुमानं युक्तमित्यर्थः । आदिशब्दः परिमाणादिग्रहार्थः । श्ब्दादीनां बाह्यत्वानुभवादान्तरसुखाद्यात्मकत्वमसिद्धं तन्निमित्तत्वाच्च । न हि निमित्तनैमित्तिकयोरभेदेन योगोऽस्ति, दण्डघटयोरदर्शनादित्यर्थः । किञ्च यदि घटे मृद्वत्सुखादिकं शब्दाद्यन्वितं स्यात्तर्हि सर्वैरविशेषेण सुखादिकमुपलभ्येत घटे मृद्वत् ।
न तथोपलब्धिरस्तीति योग्यानुपलब्ध्या हेत्वभावनिश्चय इत्याह -
शब्दादीति ।
विषयस्यैकत्वेऽपि पुरुषवासनावैचित्र्यात्कस्यचित्सुखबुद्धिः कस्यचिद्दुःखबुद्धिः कस्यचिन्मोहबुद्धिर्दृश्यतेऽतो विषयाः सुखाद्यात्मका न भवन्तीत्यर्थः ।
एवं समन्वयादिति हेतुं दूषयित्वा परिमाणादिहेतून् दूषयति -
तथेति ।
बुद्ध्यादीनां परिमितत्वेन संसर्गपूर्वकत्वसिद्धौ संसृष्टान्यनेकानि सत्त्वरजस्तमांसि सिद्ध्यन्ति, एकस्मिन् संसर्गासम्भवान्न ब्रह्मसिद्धिरिति साङ्ख्यस्य भावः । किमिदं परिमितत्वम् , न तावद्देशतः परिच्छेदः, पक्षान्तर्गताकाशे तस्याभावेन भावासिद्धेः । नापि कालतः परिच्छेदः, साङ्ख्यैः कालस्यानङ्गीकारात् , अविद्यागुणसंसर्गेण सिद्धसाधनाच्च ।
नापि वस्तुतः परिच्छेदः, सत्त्वादीनां परस्परं भिन्नत्वे सत्यपि साध्याभावेन व्यभिचारादित्याह -
सत्त्वेति ।
यदुक्तं कार्यकारणविभागो यत्र समाप्यते तत्प्रधानमिति । तन्न । ब्रह्मणि मायायां वा समाप्तिसम्भवात् ।
न च यः कार्यस्य विभागः स चेतनानधिष्ठिताचेतने समाप्त इति व्याप्तिरस्ति, सर्वत्राचेतनेषु चेतनाधिष्ठानदर्शनादित्याह -
कार्येति ।
एतेनाविभागोऽपि व्याख्यातः । यत्तु यत्परिमितं तदव्यक्तप्रकृतिपूर्वकमिति व्याप्त्यन्तरम् , तस्यापि गुणेष्वनादिषु परिमितेषु व्यभिचारः । एतेन सदृशयोरेव प्रकृतिविकारभावादचेतनविकाराणामचेतनमेव प्रकृतिरिति निरस्तम् । चेतनाधिष्ठिताचेतनप्रकृतिकत्वेऽपि सादृश्योपपत्तेः, 'न विलक्षणत्वात्' इत्यत्र सादृश्यनियमस्य निरस्तत्वाच्च । एवं चेतनाधीनकारणशक्तितः कार्यप्रवृत्तिसम्भवात् शक्तितः प्रवृत्तिलिङ्गमन्यथासिद्धमिति भावः ॥१॥