ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रवृत्तेश्च ॥ २ ॥
आस्तां तावदियं रचना । तत्सिद्ध्यर्था या प्रवृत्तिः — साम्यावस्थानात्प्रच्युतिः, सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिः, विशिष्टकार्याभिमुखप्रवृत्तिता — सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च । न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते । दृष्टाच्चादृष्टसिद्धिः । अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति । ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा — सत्यमेतत् — तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा; न त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा । किं पुनरत्र युक्तम् — यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा, उत यत्सम्प्रयुक्तस्य दृष्टा तस्य सेति ? ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् , उभयोः प्रत्यक्षत्वात्; न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः । प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः — केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमिति । अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाः । तस्मादचेतनस्यैव प्रवृत्तिरिति । तदभिधीयते — न ब्रूमः यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति । भवतु तस्यैव सा । सा तु चेतनाद्भवतीति ब्रूमः, तद्भावे भावात्तदभावे चाभावात् — यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रिया, अनुपलभ्यमानापि च केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात् — तद्वत् । लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् । ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् , न । अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः । यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितोऽप्ययसः प्रवर्तको भवति, यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम् । एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् , न । अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् । तस्मात्सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे, न त्वचेतनकारणत्वे ॥ २ ॥

स्वतन्त्रमचेतनं कारणत्वेन नानुमातव्यम् , तस्य सृष्ट्यर्थं प्रवृत्तेरनुपपत्तेरिति चकारेणानुपपत्तिपदमनुषज्य सूत्रं योजनीयम् । रचनाप्रवृत्त्योः को भेद इत्याशङ्क्य प्रवृत्तिस्वरूपमाह -

साम्येति ।

गुणानां किल साम्यावस्था तत्त्वानां प्रलयः, तदा न किञ्चित्कार्यं भवति प्रलयाभावप्रसङ्गात् । किन्त्वादौ साम्यप्रच्युतिरूपं वैषम्यं भवति, ततः कस्यचिद्गुणस्याङ्गित्वमुद्भूतत्वेन प्राधान्यं कस्यचिदङ्गत्वं शेषत्वमित्यङ्गाङ्गिभावो भवति, तस्मिन् सति महदादिकार्योत्पादनात्मिका प्रवृत्तिः, तया विविधकार्यविन्यासो रचनेति भेद इत्यर्थः ।

गुणानां प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, प्रवृत्तित्वात् , रथादिप्रवृत्तिवदित्याह -

सापीति ।

विपक्षे स्वतन्त्रे प्रवृत्त्यनुपपत्तिरित्यर्थः । केचित्तु भेदानां प्रवृत्तिशक्तिमत्वाच्चेतनानधिष्ठताचेतनप्रकृतिकत्वमिति शक्तितः प्रवृत्तिरिति लिङ्गं व्याचक्षते । अस्यापि गुणेषु व्यभिचारः । कार्यत्वविशेषणे च विरुद्धता, प्रवृत्तिशक्तिमत्वे सति कार्यत्वस्य घटादिषु चेतनाधिष्टितप्रकृतिकत्वेनोक्तसाध्यविरुद्धेन व्याप्तिदर्शनादिति 'प्रवृत्तेश्च' इति सूत्रेण ज्ञापितम् ।

ननु लोके स्वतन्त्राचेतनानां प्रवृत्यदर्शनेऽपि प्रधाने सा प्रवृत्तिः सिध्यतु, तत्राह -

दृष्टाच्चेति ।

अनुमानशरणस्य तव दृष्टन्तं विनातीन्द्रियार्थसिद्ध्ययोगादिति भावः ।

ननु प्रधानस्य प्रवृत्तिं खण्डयता चेतनस्य सृष्टौ प्रवृत्तिर्वाच्या सा न युक्तेति साङ्ख्यः शङ्कते -

नन्विति ।

शुद्धचेतनस्य प्रवृत्त्ययोगमङ्गीकरोति -

सत्यमिति ।

तर्हि केवलस्याचेतनस्य प्रवृत्तिसिद्धिरन्यथा सृष्ट्ययोगात् , तत्राह -

तथापीति ।

केवलस्य चेतनस्याप्रवृत्तावपि चेतनाचेतनयोर्मिथः सम्बन्धात्सृष्टिप्रवृत्तिरिति भावः ।

इमं वेदान्तसिद्धान्तं साङ्ख्यो दूषयति -

न त्विति ।

सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा । न त्वचेतनसम्बन्धेनापि चेतनस्य क्वचित्प्रवृत्तिर्दृष्टा । तस्मान्न चेतनात्सृष्टिरित्यर्थः ।

मतद्वयं श्रुत्वा मध्यस्थः पृच्छति -

किं पुनरिति ।

यस्मिन्न चेतने रथादौ प्रवृत्तिर्दृष्टा तस्यैव सा न चेतनस्तत्र हेतुरिति किं साङ्ख्यमतं साधु उत येन चेतनेनाश्वादिना संयोगादचेतनस्य प्रवृत्तिस्तत्प्रयुक्ता सेति वेदान्तिमतं वा साध्विति प्रश्नार्थः ।

साङ्ख्य आह -

नन्विति ।

उभयोः ।

प्रवृत्तितदाश्रययोरित्यर्थः । दृष्टाश्रयेणैव प्रवृत्तेरुपपत्तावदृष्टचेतनप्रवृत्तिर्न कल्प्येति भावः ।

आत्मनोऽप्रत्यक्षत्वे कथं सिद्धिः, तत्राह -

प्रवृत्तीति ।

जीवद्देहस्य रथादिभ्यो वैलक्षण्यं प्राणादिसत्त्वं लिङ्गं दृष्टमिति कृत्वा चेतनस्य सिद्धिरित्यन्वयः । जीवद्देहः सात्मकः प्राणादिमत्वात् , व्यतिरेकेण रथादिवदित्यात्मसिद्धिरित्यर्थः । देहप्रवृत्तिः स्वाश्रयादन्येन ज्ञानवता सहभूता, प्रवृत्तित्वात् , रथप्रवृत्तिवदित्यनुमानान्तरसूचनाय प्रवृत्त्याश्रयेत्युक्तम् , सद्भावसिद्धिरेव न प्रवर्तकत्वमित्येवकारार्थः । अनुमितस्य सद्भावमात्रेण प्रवृत्तिहेतुत्वे सर्वत्राकाशस्यापि हेतुत्वप्रसङ्गादिति भावः ।

आत्मनोऽप्रत्यक्षत्वे चार्वाकाणां भ्रमोऽपि लिङ्गमित्याह -

अत एवेति ।

अप्रत्यक्षत्वादेवेत्यर्थः । देहान्यात्मनः प्रत्यक्षत्वे भ्रमासम्भवादिति भावः ।

दर्शनात् ।

प्रवृत्तिचैतन्ययोरिति शेषः ।

प्रवृत्तिं प्रत्याश्रयत्वमचेतनस्यैवेत्युक्तमङ्गीकृत्य चेतनस्य प्रयोजकत्वं सिद्धान्ती साधयति -

तदभिधीयत इति ।

रथादिप्रवृत्तावश्वादिचेतनस्यान्वयव्यतिरेकौ स्फुटौ ताभ्यां चेतनस्य प्रवर्तकत्वं बाह्यानामपि सम्मतमित्याह -

लौकायतिकानामपीति ।

यः प्रवर्तकः सः स्वयं प्रवृत्तिमानश्वादिवदिति व्याप्तेरात्मनि व्यापकाभावान्न प्रवर्तकत्वमिति कश्चिच्छङ्कते -

नन्विति ।

मण्यादौ व्यभिचारान्न व्याप्तिरिति परिहरति -

नेति ।

वस्तुत एकत्वेऽपि कल्पितं द्वैतं प्रवर्त्यमस्तीत्याह -

न । अविद्येति ।

अविद्याकल्पिते नामरूपप्रपञ्चे तयैवाविद्यारूपया मायया य आवेशश्चिदात्मनः कल्पितः सम्बन्धस्तस्य वशः सामर्थ्यं तेनान्तर्यामित्वादिकमीश्वरस्येत्युक्तत्वान्न चोद्यावसर इत्यर्थः ॥२॥