ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥
स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम्अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम, तथापि दोषोऽनुषज्येतैवकुतः ? अर्थाभावात्यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्यते, ततो यथैव सहकारि किञ्चिन्नापेक्षते एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यतेइत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत यदि ब्रूयात्सहकार्येव केवलं नापेक्षते, प्रयोजनमपीतितथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यम्भोगो वा स्यात् , अपवर्गो वा, उभयं वेतिभोगश्चेत्कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ? अनिर्मोक्षप्रसङ्गश्चअपवर्गश्चेत्प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् , शब्दाद्यनुपलब्धिप्रसङ्गश्चउभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव चौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः हि प्रधानस्याचेतनस्यौत्सुक्यं सम्भवति पुरुषस्य निर्मलस्य निष्कलस्यौत्सुक्यम्दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिः, तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एवतस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् ॥ ६ ॥

प्रधानस्य न स्वतःप्रवृत्तिः, स्वतःप्रवृत्त्यभ्युपगमे पुरुषार्थस्याप्यपेक्षाभावप्रसङ्गादित्येकोऽर्थः । तत्रेष्टापत्तिं निरस्यति -

इत्यतः प्रधानमिति ।

उक्तप्रसङ्गस्येष्टत्वे प्रतिज्ञाहानिः स्यादित्यर्थः ।

अर्थासम्भवान्न स्वतःप्रवृत्तिरित्यर्थान्तरं शङ्कापूर्वकमाह -

स यदीत्यादिना ।

प्रयोजनमपेक्षितं चेद्वक्तव्यमित्याह -

तथापीति ।

कूटस्थे पुरुषे स्वतःसुखादिरूपस्यातिशयस्याधातुमशक्यत्वादध्यासानङ्गीकाराच्च भोगो न युक्तः । किं च प्रधानप्रवृत्तेर्भोगार्थत्वे मोक्षहेतुविवेकख्यात्यभावादनिर्मोक्षप्रसङ्गश्च, अपवर्गार्थत्वे स्वरूपावस्थानरूपमुक्तेः स्वतःसिद्धत्वात्प्रवृत्तिवैयर्थ्यम् , भोगाभावप्रसङ्गश्चेत्यर्थः ।

तृतीयं दूषयति -

उभयार्थतेति ।

मीयन्ते भुज्यन्त इति मात्रा भोग्याः ।

औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवर्तते लोकः पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तमिति कारिकोक्तं दूषयति -

न चेति ।

औत्सुक्यमिच्छाविशेषः केवलजडस्यात्मनो वा न युक्त इत्यर्थः ।

अस्ति पुरुषस्य दृक्शक्तिश्चिद्रूपत्वात् , अस्ति च प्रधानस्य सर्गशक्तिस्त्रिगुणत्वात् , तयोः शक्त्योर्दृश्यसृष्टी विना सार्थक्यायोगात्प्रधानस्य सृष्टौ प्रवृत्तिरिति चेत् । न । शक्त्योर्नित्यत्वात्सृष्टिनित्यत्वापत्तिरित्याह -

दृक्शक्तीति ॥६॥