ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥
स्यादेतत्यथा कश्चित्पुरुषो दृक्शक्तिसम्पन्नः प्रवृत्तिशक्तिविहीनः पङ्गुः अपरं पुरुषं प्रवृत्तिशक्तिसम्पन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय प्रवर्तयति, यथा वा अयस्कान्तोऽश्मा स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति, एवं पुरुषः प्रधानं प्रवर्तयिष्यतिइति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम्अत्रोच्यतेतथापि नैव दोषान्निर्मोक्षोऽस्तिअभ्युपेतहानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात् , पुरुषस्य प्रवर्तकत्वानभ्युपगमात्कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् ? पङ्गुरपि ह्यन्धं पुरुषं वागादिभिः प्रवर्तयतिनैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति, निष्क्रियत्वान्निर्गुणत्वाच्चनाप्ययस्कान्तवत्सन्निधिमात्रेण प्रवर्तयेत् , सन्निधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात्अयस्कान्तस्य त्वनित्यसन्निधेरस्ति स्वव्यापारः सन्निधिः, परिमार्जनाद्यपेक्षा चास्यास्तिइत्यनुपन्यासः पुरुषाश्मवदितितथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य तयोः सम्बन्धयितुरभावात्सम्बन्धानुपपत्तिःयोग्यतानिमित्ते सम्बन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गःपूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः; परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम् , मायाव्यपाश्रयं प्रवर्तकत्वम्इत्यस्त्यतिशयः ॥ ७ ॥

पुरुषस्य प्रवर्तकत्वं निरस्तमपि दृष्टान्तेन पुनराशङ्क्य निषेधति -

पुरुषाश्मवदिति चेत्तथापि ।

प्रधानस्य स्वातन्त्र्यं पुरुषस्यौदासीन्यं चाभ्युपेतं त्यज्यत इति वदन्तं साङ्ख्यम्प्रत्याह -

कथं चेति ।

पुरुषस्य परिस्पन्दः प्रयत्नगुणो वा नास्तीति वक्तुं हेतुद्वयम् । प्रधानपुरुषयोर्नित्यत्वाद्व्यापित्वाच्च नित्यः सन्निधिः, अश्मनस्तु परिमार्जनमृजुत्वेन स्थापनमनित्यसन्निधिश्चेति व्यापारोऽस्तीत्यनुपन्यासः, समदृष्टान्तोपन्यासो न भवतीत्यर्थः ।

ननु चिज्जडयोर्द्रष्टृदृश्यभावयोग्यतास्ति, तया तद्भावः सम्बन्ध इत्यत आह -

योग्यतेति ।

चिज्जडत्वरूपाया योग्यताया नित्यत्वात्सम्बन्धनित्यत्वापत्तिरित्यर्थः ।

यथा स्वतन्त्रप्रधानप्रवृत्तिपक्षो भोगोऽपवर्ग उभयं वा फलमिति विकल्प्य दूषितः, एवं पुरुषाधीनप्रधानप्रवृत्तिपक्षोऽपि फलाभावेन दूषणीय इत्याह -

पूर्ववच्चेति ।

सिद्धान्ते परमात्मन उदासीनस्य कथं प्रवर्तकत्वमित्याशङ्क्याह -

परमात्मेति ।

साङ्ख्यमते उभयं विरुद्धं सत्यत्वात् ।अस्मन्मते कल्पिताकल्पितयोरविरोध इत्यतिशयः ॥७॥