ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अङ्गित्वानुपपत्तेश्च ॥ ८ ॥
इतश्च प्रधानस्य प्रवृत्तिरवकल्पतेयद्धि सत्त्वरजस्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम् , सा प्रधानावस्थातस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्तेः, बाह्यस्य कस्यचित्क्षोभयितुरभावात् , गुणवैषम्यनिमित्तो महदाद्युत्पादो स्यात् ॥ ८ ॥

किं प्रधानावस्था कूटस्थवन्नित्या, उत विकारिणी । आद्ये दोषमाह -

तस्यामिति ।

अङ्गाङ्गिभावे साम्यस्वरूपनाशः स्यात् , ततः कौटस्थ्यभङ्ग इति भयादङ्गाङ्गित्वानुपपत्तेः सृष्ट्यनुपपत्तिरित्यर्थः ।

द्वितीयं दूषयति -

बाह्यस्येति ।

चिरकालस्थितस्य साम्यस्य च्युतौ निमित्तं वाच्यं तन्नास्तीत्यर्थः ॥८॥