ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
अत्राह — नन्वौपनिषदानामप्यसमञ्जसमेव दर्शनम् , तप्यतापकयोर्जात्यन्तरभावानभ्युपगमात् । एकं हि ब्रह्म सर्वात्मकं सर्वस्य प्रपञ्चस्य कारणमभ्युपगच्छताम् — एकस्यैवात्मनो विशेषौ तप्यतापकौ, न जात्यन्तरभूतौ — इत्यभ्युपगन्तव्यं स्यात् । यदि चैतौ तप्यतापकावेकस्यात्मनो विशेषौ स्याताम् , स ताभ्यां तप्यतापकाभ्यां न निर्मुच्येत — इति तापोपशान्तये सम्यग्दर्शनमुपदिशच्छास्त्रमनर्थकं स्यात् । न ह्यौष्ण्यप्रकाशधर्मकस्य प्रदीपस्य तदवस्थस्यैव ताभ्यां निर्मोक्ष उपपद्यते । योऽपि जलतरङ्गवीचीफेनाद्युपन्यासः, तत्रापि जलात्मन एकस्य वीच्यादयो विशेषा आविर्भावतिरोभावरूपेण नित्या एव इति, समानो जलात्मनो वीच्यादिभिरनिर्मोक्षः । प्रसिद्धश्चायं तप्यतापकयोर्जात्यन्तरभावो लोके । तथा हि — अर्थी चार्थश्चान्योन्यभिन्नौ लक्ष्येते । यद्यर्थिनः स्वतोऽन्योऽर्थो न स्यात् , यस्यार्थिनो यद्विषयमर्थित्वं स तस्यार्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं स्यात् — यथा प्रकाशात्मनः प्रदीपस्य प्रकाशाख्योऽर्थो नित्यसिद्ध एवेति, न तस्य तद्विषयमर्थित्वं भवति — अप्राप्ते ह्यर्थेऽर्थिनोऽर्थित्वं स्यादिति । तथार्थस्याप्यर्थत्वं न स्यात् । यदि स्यात् स्वार्थत्वमेव स्यात् । न चैतदस्ति । सम्बन्धिशब्दौ ह्येतावर्थी चार्थश्चेति । द्वयोश्च सम्बन्धिनोः सम्बन्धः स्यात् , नैकस्यैव । तस्माद्भिन्नावेतावर्थार्थिनौ । तथानर्थानर्थिनावपि; अर्थिनोऽनुकूलः अर्थः, प्रतिकूलः अनर्थः । ताभ्यामेकः पर्यायेणोभाभ्यां सम्बध्यते । तत्रार्थस्याल्पीयस्त्वात् , भूयस्त्वाच्चानर्थस्य उभावप्यर्थानर्थौ अनर्थ एवेति , तापकः स उच्यते । तप्यस्तु पुरुषः , य एकः पर्यायेणोभाभ्यां सम्बध्यते इति तयोस्तप्यतापकयोरेकात्मतायां मोक्षानुपपत्तिः । जात्यन्तरभावे तु तत्संयोगहेतुपरिहारात्स्यादपि कदाचिन्मोक्षोपपत्तिरिति ॥

स्वमतासामञ्जस्यमसहमानः साङ्ख्यः प्रत्यवतिष्ठते -

अत्राहेति ।

तप्यो जीवस्तापकः संसारस्तयोर्भेदानङ्गीकाराल्लोकप्रसिद्धस्तप्यतापकभावो लुप्येतेत्यर्थः ।

विवृणोति -

एकं हीति ।

तथा च भेदव्यवहारलोप इत्यसमञ्जसमित्यर्थः ।

ननु तयोरुपादानैक्येऽपि मिथो भेदोऽस्त्येव यथैकवह्न्यात्मकयोरौष्ण्यप्रकाशयोः, अतो न व्यवहारलोप इत्याशङ्क्य वह्नेरिव ताभ्यामात्मनोमोक्षो न स्यादित्याह -

यदि चेत्यादिना ।

ननु सत्यपि धर्मिणि स्वभावनाशो मोक्ष उपपद्यते, सत्येव जले वीच्यादिनाशदर्शनादित्याशङ्क्य दृष्टान्तासिद्धिमाह -

योऽपीति ।

किञ्च भेदाङ्गीकारेऽपसिद्धान्तः, अनङ्गीकारे लेकप्रसिद्धिबाध इत्याह -

प्रसिद्धश्चेति ।

अर्थो ह्यर्जनालाभादिनार्थिनं तापयतीति तापकः, अर्थी तप्यस्तयोरभेदे बाधकमाह -

यदीति ।

अर्थिनोऽन्यस्यार्थस्याभावादर्थित्वाभाववदर्थादन्यस्यार्थिनोऽसत्त्वादर्थत्वाभावः प्रसज्येतेत्याह -

तथार्थस्यापीति ।

प्रसङ्गस्येष्टत्वं निराकरोति -

न चैतदस्तीति ।

अर्थत्वं हि कामनाविषयत्वम् , तच्च काम्यादन्यस्य कामयितुरसत्त्वान्न स्यात् । न हि स्वस्य स्वार्थत्वमस्ति काम्यस्यैव कामयितृत्वायोगात् । तस्माद्भेदोऽङ्गीकार्य इत्यर्थः ।

इतश्च भेद इत्याह -

सम्बन्धीति ।

तथानर्थानर्थिनावपि भिन्नावित्यन्वयः ।

अर्थानर्थयोः स्वरूपोक्तिपूर्वकं तापकत्वं स्फुटयति -

अर्थिनोऽनुकूल इति ।

अद्वैतमते मुक्तेरयोगमुक्त्वा स्वमते योगमाह -

जात्यन्तरेति ।

तया तप्यया बुद्ध्या पुरुषस्य संयोगः स्वस्वामिभावस्तस्य हेतुरनादिरविवेकस्तस्य परिहारो विवेकस्तस्मान्नित्यमुक्तस्यापि पुरुषस्य कथञ्चिदुपचारान्मोक्षोपपत्तिरित्यर्थः । यथा योद्धृगतौ जयपराजयौ राजन्युपचर्येते तथा पुरुषादत्यन्तभिन्नबुद्धिगतौ बन्धमोक्षौ पुरुषे उपचर्येते । तदुक्तम् 'सैव च बध्यते मुच्यते च' इति ।