ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विप्रतिषेधाच्चासमञ्जसम् ॥ १० ॥
अत्रोच्यते — न, एकत्वादेव तप्यतापकभावानुपपत्तेः — भवेदेष दोषः, यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयाताम् । न त्वेतदस्ति, एकत्वादेव; न ह्यग्निरेकः सन्स्वमात्मानं दहति, प्रकाशयति वा, सत्यप्यौष्ण्यप्रकाशादिधर्मभेदे परिणामित्वे च । किमु कूटस्थे ब्रह्मण्येकस्मिंस्तप्यतापकभावः सम्भवेत् । क्व पुनरयं तप्यतापकभावः स्यादिति ? उच्यते — किं न पश्यसि — कर्मभूतो जीवद्देहस्तप्यः, तापकः सवितेति ? ननु तप्तिर्नाम दुःखम्; सा चेतयितुः; नाचेतनस्य देहस्य । यदि हि देहस्यैव तप्तिः स्यात् , सा देहनाशे स्वयमेव नश्यतीति तन्नाशाय साधनं नैषितव्यं स्यादिति । उच्यते — देहाभावे हि केवलस्य चेतनस्य तप्तिर्न दृष्टा । न च त्वयापि तप्तिर्नाम विक्रिया चेतयितुः केवलस्येष्यते । नापि देहचेतनयोः संहतत्वम् , अशुद्ध्यादिदोषप्रसङ्गात् । न च तप्तेरेव तप्तिमभ्युपगच्छसि । कथं तवापि तप्यतापकभावः ? सत्त्वं तप्यम् , तापकं रजः — इति चेत् , न । ताभ्यां चेतनस्य संहतत्वानुपपत्तेः । सत्त्वानुरोधित्वाच्चेतनोऽपि तप्यत इवेति चेत्; परमार्थतस्तर्हि नैव तप्यत इत्यापतति इवशब्दप्रयोगात् । न चेत्तप्यते नेवशब्दो दोषाय । न हि — डुण्डुभः सर्प इव इत्येतावता सविषो भवति, सर्पो वा डुण्डुभ इव इत्येतावता निर्विषो भवति । अतश्चाविद्याकृतोऽयं तप्यतापकभावः, न पारमार्थिकः — इत्यभ्युपगन्तव्यमिति; नैवं सति ममापि किञ्चिद्दुष्यति । अथ पारमार्थिकमेव चेतनस्य तप्यत्वमभ्युपगच्छसि, तवैव सुतरामनिर्मोक्षः प्रसज्येत, नित्यत्वाभ्युपगमाच्च तापकस्य । तप्यतापकशक्त्योर्नित्यत्वेऽपि सनिमित्तसंयोगापेक्षत्वात्तप्तेः, संयोगनिमित्तादर्शननिवृत्तौ आत्यन्तिकः संयोगोपरमः, ततश्चात्यन्तिको मोक्ष उपपन्नः — इति चेत् , न । अदर्शनस्य तमसो नित्यत्वाभ्युपगमात् । गुणानां चोद्भवाभिभवयोरनियतत्वादनियतः संयोगनिमित्तोपरम इति वियोगस्याप्यनियतत्वात्साङ्ख्यस्यैवानिर्मोक्षोऽपरिहार्यः स्यात् । औपनिषदस्य तु आत्मैकत्वाभ्युपगमात् , एकस्य च विषयविषयिभावानुपपत्तेः, विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणात् , अनिर्मोक्षशङ्का स्वप्नेऽपि नोपजायते । व्यवहारे तु — यत्र यथा दृष्टस्तप्यतापकभावस्तत्र तथैव सः — इति न चोदयितव्यः परिहर्तव्यो वा भवति ॥१०॥

सिद्धान्तयति -

अत्रेति ।

किं परमार्थदृष्ट्या तप्यतापकभावानुपपत्तिरुच्यते, व्यवहारदृष्ट्या वा । नाद्य इत्याह -

न । एकत्वादेवेति ।

दोषत्वमिति शेषः ।

तस्या अदोषत्वं विवृणोति -

भवेदित्यादिना ।

एतत्तात्त्विकं विषयविषयित्वं न त्वस्तीत्यर्थः ।

यत्र तप्यतापकभावो दृष्टस्तत्रैवेति व्यवहारपक्षमादाय सिद्धान्ती ब्रूते -

किं न पश्यसीति ।

देहस्य तप्यत्वे देहात्मवादापत्तिरिति शङ्कते -

नन्विति ।

अचेतनस्यैव देहस्य तप्तिर्नेति वदता साङ्ख्येन वक्तव्यं किं चेतनस्य केवलस्य तप्तिः, किं वा देहसंहतस्य, उत तप्तेः, आहोस्वित्सत्त्वस्य । नाद्य इत्याह -

उच्यत इति ।

न द्वितीयतृतीयावित्याह -

नापीत्यादिना ।

चतुर्थं शङ्कते -

सत्त्वमिति ।

सत्त्वरजसोस्तप्यतापकत्वे पुरुषस्य बन्धाभावाच्छास्त्रारम्भवैयर्थ्यमिति परिहरति -

न । ताभ्यामिति ।

असङ्गत्वेऽपि पुरुषस्य तप्यसत्त्वप्रतिबिम्बत्वात्तप्तिरिति शङ्कते -

सत्त्वेति ।

तर्हि जलचन्द्रस्य चलनवन्मिथ्यैव तप्तिरित्यस्मत्पक्ष आगत इत्याह -

परमार्थत इति ।

इवशब्दमात्रेण कथं मिथ्या तप्त्यवगम इति चेत्तदुच्यते - इवशब्दस्तप्यबुद्धिसत्त्वसादृश्यं ब्रूते, तच्च सादृश्यं पुरुषस्य तप्यत्वरूपं चेत्कल्पितमेव वस्तुतस्तप्त्यभावादित्युपपादयति -

न चेदिति ।

पुरुषो वस्तुतस्तप्तिशून्यश्चेदिवशब्दो न दोषाय मिथ्यातप्तिपरत्वादित्यर्थः ।

मिथ्यासादृश्यमेव दोष इति चेत् , नेत्याह -

न हीति ।

सविषयत्वं निर्विषयत्वं चेवशब्दार्थः कल्पित एव द्रष्टव्यः । साङ्ख्यस्याविद्यके तप्यतापकत्वे सति ममापि किञ्चिन्न दुष्यति किन्तु दृष्टमेव सम्पन्नमित्यर्थः । यदि मिथ्यातप्यत्वाङ्गीकारेऽपसिद्धान्तः स्यादिति भीत्या सत्यं तप्यत्वं पुरुषस्योच्यते तथाप्यपसिद्धान्तः, कौटस्थ्यहानात् ।

अनिर्मोक्षश्च, सत्यस्यात्मवन्निवृत्त्योगादित्याह -

अथेत्यादिना ।

किञ्च रजसो नित्यत्वाद्दुःखसातत्यमित्याह -

नित्यत्वेति ।

अत्र साङ्ख्यः शङ्कते -

तप्येति ।

सत्त्वं पुरुषो वा तप्यशक्तिः, तापकशक्तिस्तु रजः, निमित्तमविवेकात्मकदर्शनं तमस्तेन सहितः सनिमित्तः संयेगः पुरुषस्य गुणस्वामित्वरूपस्तदपेक्षत्वादित्यर्थः । मोक्षस्तप्त्यभावः ।

निमित्तस्य निवृत्त्यभावान्न मोक्ष इति सिद्धान्ती परिहरति -

नेति ।

तमसो निवृत्त्यभावेऽपि विवेकेनोपरमान्मोक्ष इत्यत आह -

गुणानां चेति ।

'चलं गुणवृत्तम्' इत्यङ्गीकारादिति भावः ।

परपक्षे बन्धमोक्षानुपपत्तिमुक्त्वा स्वपक्षमुपसंहरति -

औपनिषदस्य त्विति ।

वस्तुत एकत्वेन बन्धाभावान्न मुक्त्यभावशङ्कावसरः । व्यवहारस्तु भेदाङ्गीकारात्तप्यतापकभावो बन्धः तत्त्वज्ञानात्तन्निवृत्तिश्चोपपद्यत इति न चोद्यावसर इत्यर्थः ॥१०॥