ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ ११ ॥
अथ मन्यसेविरोधिना परिमाणान्तरेणाक्रान्तं कार्यद्रव्यं द्व्यणुकादि इत्यतो नारम्भकाणि कारणगतानि पारिमाण्डल्यादीनिइत्यभ्युपगच्छामि; तु चेतनाविरोधिना गुणान्तरेण जगत आक्रान्तत्वमस्ति, येन कारणगता चेतना कार्ये चेतनान्तरं नारभेत; ह्यचेतना नाम चेतनाविरोधी कश्चिद्गुणोऽस्ति, चेतनाप्रतिषेधमात्रत्वात्तस्मात्पारिमाण्डल्यादिवैषम्यात्प्राप्नोति चेतनाया आरम्भकत्वमितिमैवं मंस्थाःयथा कारणे विद्यमानानामपि पारिमाण्डल्यादीनामनारम्भकत्वम् , एवं चैतन्यस्यापिइत्यस्यांशस्य समानत्वात् परिमाणान्तराक्रान्तत्वं पारिमाण्डल्यादीनामनारम्भकत्वे कारणम् , प्राक्परिमाणान्तरारम्भात्पारिमाण्डल्यादीनामारम्भकत्वोपपत्तेः; आरब्धमपि कार्यद्रव्यं प्राग्गुणारम्भात्क्षणमात्रमगुणं तिष्ठतीत्यभ्युपगमात् परिमाणान्तरारम्भे व्यग्राणि पारिमाण्डल्यादीनीत्यतः स्वसमानजातीयं परिमाणान्तरं नारभन्ते, परिमाणान्तरस्यान्यहेतुकत्वाभ्युपगमात्; कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत्’ (वै. सू. ७ । १ । ९) तद्विपरीतमणु’ (वै. सू. ७ । १ । १०) एतेन दीर्घत्वह्रस्वत्वे व्याख्याते’ (वै. सू. ७ । १ । १७) इति हि काणभुजानि सूत्राणि सन्निधानविशेषात्कुतश्चित्कारणबहुत्वादीन्येवारभन्ते, पारिमाण्डल्यादीनीतिउच्येत, द्रव्यान्तरे गुणान्तरे वा आरभ्यमाणे सर्वेषामेव कारणगुणानां स्वाश्रयसमवायाविशेषात्तस्मात्स्वभावादेव पारिमाण्डल्यादीनामनारम्भकत्वम् , तथा चेतनाया अपीति द्रष्टव्यम्

दृष्चान्तवैषम्यं शङ्कते -

अथ मन्यस इति ।

अचेतनैव विरोधिगुण इत्यत आह -

न ह्यचेतनेति ।

कार्यद्रव्यस्य परिमाणान्तराक्रान्तत्वमङ्गीकृत्य विवक्षितांशसाम्यमाह -

मैवमिति ।

अङ्गीकारं त्यजति -

न चेति ।

उत्पन्नं हि परिमाणान्तरं विरोधि भवति, तदुत्पत्तेः प्राग्विरोध्यभावात् द्व्यणुके पारिमाण्डल्यारम्भः किं न स्यादित्यर्थः ।

ननु विरोधिपरिमाणेन सहैव द्रव्यं जायत इत्यत आह -

आरब्धमपीति ।

सहोत्पत्तावपसिद्धान्तः । अतो विरोध्यभावः सिद्ध इति भावः ।

अणुत्वाद्यारम्भे व्यग्रत्वात्पारिमाण्डल्यादेः स्वसमानगुणानारम्भकत्वमित्याशङ्क्य निषेधति -

न चेति ।

व्यग्रत्वमन्यथासिद्धम् ।

तत्र हेतुः -

परिमाणन्तरस्येति ।

अन्यहेतुकत्वे सूत्राण्युदाहरति -

कारणेति ।

कारणानां द्व्यणुकानां बहुत्वात्त्र्यणुके महत्वं मृदो महत्वात् घटे महत्वम् , द्वितूलपिण्डारब्धेऽतिस्थूलतूलपिण्डे प्रचयादवयवसंयोगविशेषान्महत्वमित्यर्थः ।

महत्वविरुद्धमणुत्वं परमाणुगतद्वित्वसङ्ख्यया द्व्यणुके भवतीत्याह -

तदिति ।

यन्महत्वस्यासमवायिकारणं तदेव महत्वसमानाधिकरणस्य दीर्घत्वस्य, यच्चाणुत्वस्यासमवायिकारणं तदेवाणुत्वाविनाभूतहृस्वत्वस्यासमवायिकारणमित्यतिदिशति -

एतेनेति ।

अतो महत्वादावहेतुत्वात्पारिमाण्डल्यादीनां व्यग्रत्वमसिद्धमिति भावः ।

तेषां सन्निधिविशेषाभावान्न समानगुणारम्भकत्वमित्यपि न वाच्यमित्याह -

न चेति ।

पारिमाण्डल्यादीनामपि बहुत्वादिवत्समवायिकारणगतत्वाविशेषादित्यर्थः ।

तेषामनारम्भकत्वे कार्यद्रव्यस्य विरोधिगुणाक्रान्तत्वं व्यग्रत्वमसन्निधिर्वा न हेतुरित्युक्तिफलमाह -

तस्मादिति ।

यत्तु कारणगुणः स्वसमानगुणारम्भक इति व्याप्तेः सामान्यगुणेषु पारिमाण्डल्यादिषु व्यभिचारेऽपि यो द्रव्यसमवायिकारणगतो विशेषगुणः स स्वसमानजातीयगुणारम्भक इति व्याप्तेश्चैतन्यस्य विशेषगुणत्वादारम्भकत्वं दुर्वारमिति, तन्मन्दम् , चित्रपटहेतुतन्तुगतेषु नीलादिरूपेषु विजातीयचित्ररूपहेतुषु व्यभिचाराच्चैतन्यस्यात्मत्वेन गुणत्वाभावाच्चेति मन्तव्यम् ।