ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
तत्रेदमभिधीयते — विभागावस्थानां तावदणूनां संयोगः कर्मापेक्षोऽभ्युपगन्तव्यः, कर्मवतां तन्त्वादीनां संयोगदर्शनात् । कर्मणश्च कार्यत्वान्निमित्तं किमप्यभ्युपगन्तव्यम् । अनभ्युपगमे निमित्ताभावान्नाणुष्वाद्यं कर्म स्यात् । अभ्युपगमेऽपि — यदि प्रयत्नोऽभिघातादिर्वा यथादृष्टं किमपि कर्मणो निमित्तमभ्युपगम्येत, तस्यासम्भवान्नैवाणुष्वाद्यं कर्म स्यात् । न हि तस्यामवस्थायामात्मगुणः प्रयत्नः सम्भवति, शरीराभावात् । शरीरप्रतिष्ठे हि मनस्यात्मनः संयोगे सति आत्मगुणः प्रयत्नो जायते । एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम् । सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं सम्भवति । अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत — तत्पुनरात्मसमवायि वा स्यात् अणुसमवायि वा । उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेत, अदृष्टस्याचेतनत्वात् । न ह्यचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तते प्रवर्तयति वेति साङ्ख्यप्रक्रियायामभिहितम् । आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनत्वात् । आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यात् , असम्बन्धात् । अदृष्टवता पुरुषेणास्त्यणूनां सम्बन्ध इति चेत् — सम्बन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गः, नियामकान्तराभावात् । तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात्; कर्माभावात्तन्निबन्धनः संयोगो न स्यात्; संयोगाभावाच्च तन्निबन्धनं द्व्यणुकादि कार्यजातं न स्यात् । संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यात् एकदेशेन वा ? सर्वात्मना चेत् , उपचयानुपपत्तेरणुमात्रत्वप्रसङ्गः, दृष्टविपर्ययप्रसङ्गश्च, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् । एकदेशेन चेत् , सावयवत्वप्रसङ्गः । परमाणूनां कल्पिताः प्रदेशाः स्युरिति चेत् , कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुनः कार्यस्यासमवायिकारणं न स्यात्; असति चासमवायिकारणे द्व्यणुकादिकार्यद्रव्यं नोत्पद्येत । यथा चादिसर्गे निमित्ताभावात्संयोगोत्पत्त्यर्थं कर्म नाणूनां सम्भवति, एवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां सम्भवेत् । न हि तत्रापि किञ्चिन्नियतं तन्निमित्तं दृष्टमस्ति । अदृष्टमपि भोगप्रसिद्ध्यर्थम् , न प्रलयप्रसिद्ध्यर्थम् — इत्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म । अतश्च संयोगविभागाभावात्तदायत्तयोः सर्गप्रलययोरभावः प्रसज्येत । तस्मादनुपपन्नोऽयं परमाणुकारणवादः ॥ १२ ॥

तस्य भ्रान्तिमूलत्वादविरोध इति सिद्धान्तयति -

तत्रेदमिति ।

प्रलये विभक्तानां परमाणूनामन्यतरकर्मणोभयकर्मणा वा संयोगो वाच्यः, कर्मणश्च निमित्तं प्रयत्नादिकं दृष्टम् , यथा प्रयत्नवदात्मकसंयोगाद्देहचेष्टा, वाय्वाद्यभिघाताद्वृक्षादिचलनम् , हस्तनोदनादिष्वादिगमनम् , तद्वदणुकर्मणो दृष्टं निमित्तमभ्युपगम्यते न वा । द्वितीये कर्मानुत्पत्तिः नाद्यः, प्रयत्नादेः सृष्ट्युत्तरकालीनत्वादित्युभयथापि न कर्म सम्भवति । अतः कर्मासम्भवात्तस्य संयोगपूर्वकद्व्यणुकादिसर्गस्याभाव इति सूत्रार्थः । स्थिरस्य वेगवद्द्रव्यसंयोगाविशेषोऽभिघातः स एव चलस्य नोदनमिति भेदः ।

दृष्टनिमित्ताभावेऽप्यदृष्टवदात्मसंयोगादणुषु कर्मेति शङ्कते -

अथादृष्टमिति ।

विकल्पपुरःसरं दूषयति -

तत्पुनरिति ।

जडात्मवदणोराश्रयत्वं किं न स्यादिति मत्वा विकल्पः कृत इति मन्तव्यम् ।

अत्रापि सूत्रं योजयति -

उभयथेति ।

जीवाधिष्ठितमदृष्टं निमित्तमस्त्वित्यत आह -

आत्मनश्चेति ।

अचेतनत्वान्नाधिष्ठातृत्वमिति शेषः । भिन्नेश्वरस्याधिष्ठातृत्वमग्रे निराकरिष्यते । अचेतनत्वमदृष्टस्य कर्मनिमित्तत्वाभावे हेतुरुक्तः ।

हेत्वन्तरमाह -

आत्मसमवायित्वेति ।

गुरुत्ववददृष्टमपि स्वाश्रयसंयुक्ते क्रियाहेतुरिति शङ्कते -

अदृष्टवतेति ।

विभुसंयोगस्याणुषु सदा सत्त्वात्क्रियासातत्ये प्रलयाभावः स्यादिति दूषयति -

सम्बन्धेति ।

कादाचित्कप्रवृत्तेरदृष्टनियम्यत्वायोगेऽपीश्वरान्नियम इत्यत आह -

नियामकान्तरेति ।

यज्ज्ञानं तच्छरीरजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेस्तद्गुण ईश्वरो नास्ति, अस्तित्वेऽपि सदा सत्त्वान्न नियामकत्वमिति भावः ।

सूत्रार्थं निगमयति -

तदेवमिति ।

संयोगस्य हेतुत्वं खण्डयित्वा स्वरूपं खण्डयति -

संयोगश्चाणोरिति ।

संयोगस्य व्याप्यवृत्तित्वे एकस्मिन्नितरस्यान्तर्भावात्कार्यस्य पृथुत्वायोगात्सर्वं कार्यं परमाणुमात्रं स्यादित्यर्थः ।

किञ्च सांशद्रव्ये संयोगस्यैकांशवृत्तित्वं दृष्टं तद्विरोधाद्व्याप्यवृत्तित्वं न कल्प्यमित्याह -

दृष्टेति ।

परमाणोः संयोग एकदेशेन चेदिति सम्बन्धः । दिग्भेदेन कल्पितप्रदेशस्थसंयोगस्यापि कल्पितत्वात्ततः कार्यं नोत्पद्येत, उत्पन्नं वा मिथ्या स्यादित्यपसिद्धान्त इत्यर्थः ।

काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयनिरासेऽपि सूत्रं योजयति -

यथा चेति ।

परमाणूनां कर्मणा संयोगात्सर्गः, विभागात्प्रलय इति प्रक्रिया न युक्ता, युगपदनन्तपरमाणूनां विभागे नियतस्याभिघातादेर्दृष्टस्य निमित्तस्यासत्त्वात् धर्माधर्मरूपादृष्टस्य सुखदुःखार्थत्वेन सुखदुःखशून्यप्रलयप्रयोजकत्वायोगान्नादृष्टनिमित्तेन कर्मणा विभागः सम्भवति । तथा च दृष्टादृष्टनिमित्तयोरसत्त्वादुभयथापि संयोगार्थत्वेन विभागार्थत्वेन च कर्म नास्ति, अतः कर्माभावात्तयोः संयोगविभागपूर्वकयोः सर्गप्रलययोरभाव इति सूत्रयोजना ॥१२॥