ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
समवायाभ्युपगमाच्च — तदभाव इति — प्रकृतेनाणुवादनिराकरणेन सम्बध्यते । द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता । न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम् । कुतः ? साम्यादनवस्थितेः — यथैव ह्यणुभ्यामत्यन्तभिन्नं सत् द्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते, एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बध्येत, अत्यन्तभेदसाम्यात् । ततश्च तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत । ननु इहप्रत्ययग्राह्यः समवायो नित्यसम्बद्ध एव समवायिभिर्गृह्यते, नासम्बद्धः, सम्बन्धान्तरापेक्षो वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेति । नेत्युच्यते; संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बद्ध एवेति समवायवन्नान्यं सम्बन्धमपेक्षेत । अथार्थान्तरत्वात्संयोगः सम्बन्धान्तरमपेक्षेत, समवायोऽपि तर्ह्यर्थान्तरत्वात्सम्बन्धान्तरमपेक्षेत । न च — गुणत्वात्संयोगः सम्बन्धान्तरमपेक्षते, न समवायः अगुणत्वादिति युज्यते वक्तुम्; अपेक्षाकारणस्य तुल्यत्वात् , गुणपरिभाषायाश्चातन्त्रत्वात् । तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था । प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुकं नैवोत्पद्येत । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १३ ॥

समवायाभ्युपगमाच्च तदभावः ।

अणुवादासम्भव इति योग्यतया सम्बध्यते द्व्यणुकसमवाययोः परमाणुभिन्नत्वसाम्यात् द्व्यणुकवत्समवायस्यापि समवायान्तरमित्यनवस्थितिरित्यर्थः ।

नन्विह तन्तुषु पट इत्यादिविशिष्टधीनियामकः समवायो न सम्बन्धान्तरमपेक्षते, स्वरूपेणैव नित्यसम्बद्धत्वादिति शङ्कते -

नन्विहेति ।

संयोगस्यापि स्वरूपसम्बन्धोपपत्तेः समवायो न स्यादिति दूषयति -

नेति ।

सम्बन्धिभिन्नत्वाच्चेदपेक्षा समवायस्यापि तुल्या ।

गुणपरिभाषायाश्चेति ।

गुणत्वाभावेऽपि कर्मसामान्यादीनां समवायाङ्गीकाराद्गुणत्वं समवायित्वे न व्यापकम् । नापि व्याप्यम् , गुणस्यापि समवायवत्स्वरूपसम्बन्धसम्भवेन व्याप्त्यनुकूलतर्काभावात् । तस्मात्सम्बन्धिभिन्नत्वमेव सम्बन्धान्तरापेक्षायां कारणम् , तस्य समवायेऽपि तुल्यत्वादनवस्था दुर्वारा । सा च मूलक्षयकारी । तया समवायासिद्धौ समवेतद्व्यणुकासिद्धिरित्यर्थः ॥१३॥