ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नित्यमेव च भावात् ॥ १४ ॥
अपि चाणवः प्रवृत्तिस्वभावा वा, निवृत्तिस्वभावा वा, उभयस्वभावा वा, अनुभयस्वभावा वा अभ्युपगम्यन्तेगत्यन्तराभावात्चतुर्धापि नोपपद्यतेप्रवृत्तिस्वभावत्वे नित्यमेव प्रवृत्तेर्भावात्प्रलयाभावप्रसङ्गःनिवृत्तिस्वभावत्वेऽपि नित्यमेव निवृत्तेर्भावात्सर्गाभावप्रसङ्गःउभयस्वभावत्वं विरोधादसमञ्जसम्अनुभयस्वभावत्वे तु निमित्तवशात्प्रवृत्तिनिवृत्त्योरभ्युपगम्यमानयोरदृष्टादेर्निमित्तस्य नित्यसन्निधानान्नित्यप्रवृत्तिप्रसङ्गः, अतन्त्रत्वेऽप्यदृष्टादेर्नित्याप्रवृत्तिप्रसङ्गःतस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १४ ॥

सूत्रं व्याचष्टे -

अपि चेति ।

अनुभवस्वभावत्वे नैमित्तिकी प्रवृत्तिर्वाच्या, निमित्तं च कालादृष्टादिकं नित्यसन्निहितमिति नित्यमेव प्रवृत्तिप्रसङ्गः, तस्यानिमित्तत्वे प्रवृत्त्यभाव इत्यर्थः ॥१४॥