ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥
सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो सम्भवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति, तेषामभ्युपगमो निरालम्बन एव; यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येतपरमकारणापेक्षया स्थूलत्वमनित्यत्वं तेषामभिप्रेतविपरीतमापद्येतेत्यर्थःकुतः ? एवं लोके दृष्टत्वात्यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यं दृष्टम्; तद्यथापटस्तन्तूनपेक्ष्य स्थूलोऽनित्यश्च भवति; तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्तितथा चामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्तेतस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्तियच्च नित्यत्वे कारणं तैरुक्तम्सदकारणवन्नित्यम्’ (वै. सू. ४ । १ । १) इति, तदप्येवं सति अणुषु सम्भवति, उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेःयदपि नित्यत्वे द्वितीयं कारणमुक्तम्अनित्यमिति विशेषतः प्रतिषेधाभावः’ (वै. सू. ४ । १ । ४) इति, तदपि नावश्यं परमाणूनां नित्यत्वं साधयतिअसति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते पुनः परमाणुनित्यत्वमेवापेक्ष्यतेतच्चास्त्येव नित्यं परमकारणं ब्रह्म शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात्यदपि नित्यत्वे तृतीयं कारणमुक्तम् — ‘अविद्या इतितद्यद्येवं विव्रीयतेसतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येतअथाद्रव्यत्वे सतीति विशेष्येत, तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत, तस्य प्रागेवोक्तत्वात् अविद्या ’ (वै. सू. ४ । १ । ५) इति पुनरुक्तं स्यात्अथापि कारणविभागात्कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसम्भवोऽविद्या, सा परमाणूनां नित्यत्वं ख्यापयतिइति व्याख्यायेतनावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनंष्टुमर्हतीति नियमोऽस्तिसंयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात्यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते, तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यतेतस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम्तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १५ ॥

किं च परमाणवः समवायिकारणवन्तः कारणापेक्षया स्थूला अनित्याश्च, रूपवत्त्वात् रसवत्त्वाद्गन्धवत्त्वात्स्पर्शवत्त्वात् घटवदिति सूत्रं योजयितुं परप्रक्रियामाह -

सावयवानामित्यादिना ।

नन्वत्र परमाणुत्वं पक्षतावच्छेदकं तद्विरुद्धं स्थूलत्वं कथं साध्यत इति चेत् । न । वायुत्वतेजस्त्वादेः पृथगवच्छेदकत्वात् । न चाप्रयोजकता, कारणशून्यत्वे नित्यत्वे चात्मवद्रूपादिमत्त्वायोगात् । न च तर्हि वायुः कारणवानिति पृथक्साधने रूपादिहेतूनां भागासिद्ध्यभावेऽपि सिद्धसाधनता स्यादिति वाच्यम् , यत्र स्पर्शस्तत्सकारणम् , यत्र रूपं तत्सकारणमिति व्याप्तिग्रहकाले वायुत्वाद्यवच्छेदेन साध्यसिद्ध्यभावादिति भावः ।

परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति सत्प्रतिपक्षमुत्थाप्य विशेष्यासिद्ध्या दूषयति -

यच्च नित्यत्व इति ।

सत्त्वं भावत्वं प्रागभावनिरासार्थम् ।

नित्यत्वप्रतिषेधः सप्रतियोगिकः, अभावत्वात् , घटाभावावदिति नित्यस्य क्वचित्सिद्धौ कार्यमनित्यमिति विशेषतः कार्ये नित्यत्वप्रतिषेधात्कारणभूतपरमाणुषु नित्यत्वं सिध्यति, अन्यथा प्रतियोग्यभावे प्रतिषेधानुपपत्तेरिति कणादोक्तमनूद्यान्यथासिद्ध्या दूषयति -

यदपीति ।

कार्ये नित्यत्वप्रतिषेधव्यवहारमङ्गीकृत्य ब्रह्मणि प्रतियोगिप्रसिद्धिरुक्ता ।

वस्तुतस्तु विशेषव्यवहार एवासिद्धः, कारणनित्यत्वस्य प्रमाणान्तरेण ज्ञानं विना कार्यमनित्यमिति व्यवहारायोगादित्याह -

न च शब्देति ।

यदि प्रमाणान्तरं कारणनित्यत्वे स्यात्तदायं व्यवहारः समूलो भवति, ततो मूलज्ञानात्प्राग्व्यवहारमात्रान्न वस्तुसिद्धिः, वटे यक्षव्यवहारादपि तत्सिद्धिप्रसङ्गात् मूलज्ञाने तु तेनैव अशेषसिद्धेर्व्यवहारोपन्यासवैयर्थ्यमिति भावः ।

एवं परमाणुनित्यत्वे काणादसूत्रद्वयं निरस्य तृतीयं निरस्यति -

यदपीति ।

सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणज्ञानमविद्येति यदि सूत्रार्थः, तर्ह्यप्रत्यक्षकारणत्वं नित्यत्वे हेतुः स्यात् । तन्न द्व्यणुके व्यभिचारादित्यर्थः ।

यद्यारम्भकद्रव्यशून्यत्वं हेतुविशेषेणं तदा विशेष्यवैयर्थ्यमापद्येत, पुनरुक्तिश्चेत्याह -

अथेत्यादिना ।

परमाणवो नित्याः, नाशकानुपलम्भात् , आत्मवदिति सूत्रार्थमाशङ्कते -

अथापीति ।

तन्त्वाद्यवयवानां विभागान्नाशाद्वा पटादिनाशो दृष्टः, तच्च द्वयं निरवयवाणूनां नास्तीति नित्यत्वमित्यर्थः ।

परिणामवादमाश्रित्याणूनां नाशकं किञ्चित्सम्भवतीति परिहरति -

नेति ।

अवयवानां संयोगेन द्रव्यान्तरोत्पत्तिरारम्भ इति यदि मतं स्यात् , तदा द्रव्यविनाशो द्वाभ्यामेवेतिनियमः स्यात् । नारम्भे मानमस्ति संयुक्ततन्त्वन्यवपटादर्शनात् । अतः कारणमेव स्वतो निर्विशेषं विशेषवदवस्थात्मना कार्यमित्यनुभवबलादास्थेयम् । तथा चाणूनामप्यविद्यापरिणामरूपाणां प्रलयनिमित्तेन कालादिना पिण्डात्मकस्वरूपतिरोभावेन कारणभावापत्तिर्विनाश उपपद्यते । यथाग्निसम्पर्काद्घृतकाठिन्यमवयवसंयोगस्यावयवानां च नाशं विनैव लीयते तद्वत् । न च काठिन्यस्य संयोगविशेषत्वेन गुणत्वाद्द्रव्यनाशेऽनुदाहरणत्वमिति शङ्क्यम् , गुणवद्द्रव्यस्यापि कुतश्चिद्विनाश इत्यंशेनोदहरणात् , गुणपरिभाषायाश्चातन्त्रत्वात् । वस्तुतस्तु घृतं कठिनं द्रवमित्यनुस्यूतघृतपरिणामविशेषो द्रव्यमेव काठिन्यम् । न च द्रव्यत्वेऽप्यवयवविभागादेव तस्य नाश इति वाच्यम् , घृतस्य परिणामिन एकत्वेन विभागासम्भवात् , परमाणुकाठिन्यनाशे तदसम्भवाच्चेति भावः । किञ्च प्रलये नासीद्रजो नान्यत्किञ्चनेत्यणूनां नाशसिद्धिः ।

तस्मान्न तेषां परमकारणत्वमित्युपसंहरति -

तस्मादिति ॥१५॥