ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्यते, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात् , अपृथक्कालत्वं वा, अपृथक्स्वभावत्वं वा ? सर्वथापि नोपपद्यतेअपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येतकथम् ? तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते, पटदेशःपटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते, तन्तुदेशाःतथा चाहुःद्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्’ (वै. सू. १ । १ । १०) इति; तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते, तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्तेइति हि तेऽभ्युपगच्छन्तिसोऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येतअथ अपृथक्कालत्वमयुतसिद्धत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येततथा अपृथक्स्वभावत्वे त्वयुतसिद्धत्वे, द्रव्यगुणयोरात्मभेदः सम्भवति, तस्य तादात्म्येनैव प्रतीयमानत्वात्

अस्य हेतोरन्यथासिद्धिमाशङ्कते -

गुणादीनामिति ।

गुणादीनां द्रव्येणाभेदाभावेऽप्ययुतसिद्धत्वेन तादात्म्यप्रतीतिसिद्धिरित्यर्थः ।

दूषयितुं विकल्पयति -

तत्पुनरिति ।

शौक्ल्यस्य पटनिष्ठत्वात्पटस्य तन्तुदेशत्वात्पटशौक्ल्ययोरपृथग्देशत्वाभावाच्छुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यादित्याद्यं दूषयति -

अपृथग्देशत्व इति ।

काणादसूत्रद्वयं व्याचष्टे -

तन्तवो हीति ।

स्वभावो हि स्वरूपं तस्यापृथक्त्वेऽस्मदिष्टाभेदसिद्धिरित्याह -

अपृथक्त्वभावत्व इति ।

अभेदे युक्तिमाह -

तस्येति ।

गुणस्येत्यर्थः । एवं षट्पदार्था अत्यन्तभिन्ना इति सिद्धान्तोऽनुभवविरोधेन दूषितः ।