ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
युतसिद्धयोः सम्बन्धः संयोगः, अयुतसिद्धयोस्तु समवायः — इत्ययमभ्युपगमो मृषैव तेषाम् , प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः । अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् — अयुतसिद्धस्य कार्यस्य कारणेन सम्बन्धः समवाय इति, एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन सम्बन्धो नोपपद्यते, द्वयायत्तत्वात्सम्बन्धस्य । सिद्धं भूत्वा सम्बध्यत इति चेत् , प्राक्कारणसम्बन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात् , कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् । यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः सम्बन्धः संयोग एवाभ्युपगम्यते, न समवायः, एवं कारणद्रव्येणापि सम्बन्धः संयोग एव स्यात् , न समवायः । नापि संयोगस्य समवायस्य वा सम्बन्धस्य सम्बन्धिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति । सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् , न; एकत्वेऽपि स्वरूपबाह्यरूपापेक्षया अनेकशब्दप्रत्ययदर्शनात् । यथैकोऽपि सन् देवदत्तो लोके स्वरूपं सम्बन्धिरूपं चापेक्ष्य अनेकशब्दप्रत्ययभाग्भवति — मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वम् , न व्यतिरिक्तवस्त्वस्तित्वेन — इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेः अभावः वस्त्वन्तरस्य; नापि सम्बन्धिविषयत्वे सम्बन्धशब्दप्रत्यययोः सन्ततभावप्रसङ्गः; स्वरूपबाह्यरूपापेक्षयेति — उक्तोत्तरत्वात् । तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः सम्भवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् । कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् , न; अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् , इयानेवाविद्यमानो विरुद्धोऽविरुद्धो वा अर्थः कल्पनीयः, नातोऽधिकः — इति नियमहेत्वभावात् , कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसम्भवाच्च — न च वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्योऽन्येऽधिकाः शतं सहस्रं वा अर्था न कल्पयितव्या इति निवारको हेतुरस्ति । तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत् । कश्चित्कृपालुः प्राणिनां दुःखबहुलः संसार एव मा भूदिति कल्पयेत्; अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत्; कस्तयोर्निवारकः स्यात् । किञ्चान्यत् — द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः । न ह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषोऽस्ति । कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् , न; इतरेतराश्रयत्वात् — कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिः आश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः — कुण्डबदरवत् — इतीतरेतराश्रयता स्यात् । न हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् ॥

सिद्धान्तान्तरं दूषयति -

युतेति ।

अयुतसिद्धत्वं किमुभयोरुतान्यतरस्य । नाद्य इत्याह -

प्रागिति ।

द्वितीयमाशङ्क्य दूषयति -

अथेत्यादिना ।

कारणस्य पृथक्सिद्धत्वेऽपि कार्यमपृथक्सिद्धमित्युक्तमुपेत्य सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं दूषयित्वा द्वितीयं शङ्कते -

सिद्धं भूत्वेति ।

सतोरप्राप्तयोः प्राप्तिः संयोग इत्यभ्युपगमात्तन्तुपटयोरपि संयोगापत्तिरित्यपसिद्धान्तः स्यादित्यर्थः ।

सद्योजातपटस्य क्रियाभावात्कथं संयोगः, तत्राह -

यथेति ।

किञ्च सम्बन्धस्यापि सम्बन्धेऽनवस्थानादसम्बद्धस्यानियामकत्वात्सम्बन्धोऽपि दुर्निरूप इत्याह -

नापीति ।

सम्बन्धः सम्बन्धिभिन्नः, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते -

सम्बन्धीति ।

कल्पितभेदसाधने सिद्धसाधनता, वस्तुभेदसाधने तु व्यभिचार इति समाधत्ते -

न । एकत्वेऽपीति ।

स्वरूपेणैव मनुष्यादिशब्दभागेव पुत्राद्यपेक्षया पितेत्यादिविलक्षणशब्दधीगम्यो भवति, न च भिद्यत इति व्यभिचार इत्यर्थः ।

फलितमाह -

इत्युपलब्धीति ।

विलक्षणशब्दधीगम्यत्वादित्युपलब्धिघटितेन लक्षणेन लिङ्गेन प्राप्तस्य वस्त्वन्तरस्य संयोगादेः सम्बन्धिव्यतिरेकेणानुपलब्धेरभावो निश्चीयत इत्यर्थः । न ह्यङ्गुलिद्वयस्य नैरन्तर्यातिरेकेण संयोग उपलभ्यते । समवायस्तु न कस्यापि क्वचिदप्यनुभवमारोहतीति भावः ।

सम्बन्धस्य सम्बन्ध्यभेदे सम्बन्धिनः सदा सत्त्वात्सर्वदा सम्बन्धबुद्धिप्रसङ्ग इति शङ्कां निषेधति -

नापीति ।

परापेक्षया नैरन्तर्यावस्थायामङ्गुल्योः रूपरूपिणोश्च सम्बन्धिधीः, न स्वत इत्युक्तमित्यर्थः ।

पूर्वं परमाण्वोः संयोगनिरासेन द्व्यणुकादिसृष्टिर्निरस्ता, सम्प्रत्यदृष्टवदात्मनाणूनां संयोगोऽणुषु क्रियाहेतुः, आत्ममनसोः संयोगो बुद्ध्याद्यसमवायिकारणं निरस्यते -

तथाण्वात्मेति ।

निरस्तमपि कल्पितप्रदेशपक्षमतिप्रसङ्गाख्यदोषान्तरं वक्तुं पुनरुद्भावयति -

कल्पिता इति ।

कल्पनमूहः । ऊहितार्थाः सन्तोऽसन्तो वा । द्वितीये न संयोगसिद्धिः स्वस्वाभावयोरेकत्र वृत्त्यवच्छेदकासत्त्वात् । आद्ये तूहमात्रेण सर्वार्थसिद्धिप्रसङ्गः, ऊहस्य स्वाधीनत्वात् । प्रभूतत्वं निरवधित्वं तत्सम्भवाच्चेत्यर्थः ।

यद्यूहात्सर्वसिद्धिस्तदा पदार्थबन्धमुक्तिनियमा लुप्येरन्नित्याह -

न चेत्यादिना ।

संयोगं दूषयित्वा समवायं दूषयति -

किञ्चान्यदिति ।

तन्मते दूषणान्तरमुच्यत इत्यर्थः । संश्लेषः सङ्ग्रहः । यत एकाकर्षणेनापराकर्षणं तस्यानुपपत्तिरित्यर्थः । द्व्यणुकं निरवयवासमवेतम् , सावयवत्वात् , आकाशासमवेतभूमिवदिति भावः ।

ननु द्व्यणुकस्यासमवेतत्वे तदाश्रितत्वं न स्यात् , सम्बन्धं विना तदयोगात् । न च संयोगादाश्रितत्वं कार्यद्रव्यस्य प्रकृत्यसंयोगादिति शङ्कते -

कार्येति ।

प्रकृतिविकारयोरभेदादाश्रयाश्रयिभावानुपपत्तिरिष्टेति परिहरति -

नेति ।

भेदात्तद्भाव इति वदन्तं प्रत्याह -

इतरेतराश्रयत्वादिति ।

कथं तर्हि कार्यस्य कारणाश्रितत्वव्यवहारः कल्पितभेदादित्याह -

कारणस्यैवेति ।