ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
किञ्चान्यत्परमाणूनां परिच्छिन्नत्वात् , यावत्यो दिशःषट् अष्टौ दश वातावद्भिरवयवैः सावयवास्ते स्युः, सावयवत्वादनित्याश्चइति नित्यत्वनिरवयवत्वाभ्युपगमो बाध्येतयांस्त्वं दिग्भेदभेदिनोऽवयवान्कल्पयसि, एव मम परमाणव इति चेत् , ; स्थूलसूक्ष्मतारतम्यक्रमेण परमकारणाद्विनाशोपपत्तेःयथा पृथिवी द्व्यणुकाद्यपेक्षया स्थूलतमा वस्तुभूतापि विनश्यति, ततः सूक्ष्मं सूक्ष्मतरं पृथिव्येकजातीयकं विनश्यति, ततो द्व्यणुकम् , तथा परमाणवोऽपि पृथिव्येकजातीयकत्वाद्विनश्येयुःविनश्यन्तोऽप्यवयवविभागेनैव विनश्यन्तीति चेत् , नायं दोषः; यतो घृतकाठिन्यविलयनवदपि विनाशोपपत्तिमवोचामयथा हि घृतसुवर्णादीनामविभज्यमानावयवानामप्यग्निसंयोगात् द्रवभावापत्त्या काठिन्यविनाशो भवति, एवं परमाणूनामपि परमकारणभावापत्त्या मूर्त्यादिविनाशो भविष्यतितथा कार्यारम्भोऽपि नावयवसंयोगेनैव केवलेन भवति, क्षीरजलादीनामन्तरेणाप्यवयवसंयोगान्तरं दधिहिमादिकार्यारम्भदर्शनात्तदेवमसारतरतर्कसन्दृब्धत्वादीश्वरकारणश्रुतिविरुद्धत्वाच्छ्रुतिप्रवणैश्च शिष्टैर्मन्वादिभिरपरिगृहीतत्वादत्यन्तमेवानपेक्षा अस्मिन्परमाणुकारणवादे कार्या श्रेयोर्थिभिरिति वाक्यशेषः ॥ १७ ॥

परमाणूनां निरवयवत्वमप्ययुक्तमित्याह -

किञ्चेति ।

परमाणवः सावयवाः, अल्पत्वात् , घटवत् । विपक्षे तेषां दिग्भेदावधित्वं न स्यादात्मवदित्यर्थः ।

ननु परमाण्वपेक्षया योऽयं प्राची दक्षिणेत्यादिदिग्भेदव्यवहारस्तदवधित्वेन येऽवयवास्त्वयोच्यन्ते त एव मम परमाणवस्तेऽपि सावयवाश्चेत्तदवयवा एवेति, एवं यतः परं न विभागः स एव निरवयवः परमाणुरिति शङ्कते -

यांस्त्वमिति ।

परिहरति -

न । स्थूलेति ।

अयमर्थः - यत्सवात्मना विभागायोग्यं वस्तु स परमाणुरिति यद्युच्येत तर्हि ब्रह्मण एव परमाणुसंज्ञा कृता स्यात् , तदन्यस्याल्पस्य दिग्विभागार्हत्वेनावयवविभागावश्यं भावात् । यदि पृथिव्यादिजातीयोऽल्पपरिमाणविश्रान्तिभूमिर्यः स परमाणुरित्युच्येत तर्हि तस्य न मूलकारणत्वम् , विनाशित्वात् , घटवत् । न च हेत्वसिद्धिः, अणवो विनाशिनः, पृथिव्यादिजातीयत्वात् , घटवदिति साधनादिति ।

सम्प्रति निरवयवद्रव्यस्य नाशहेत्वभावादात्मवदविनाश इत्याशङ्क्य पूर्वोक्तं परिहारं स्मारयति -

विनश्यन्त इत्यादिना ।

ब्रह्मातिरिक्तस्याज्ञानिकत्वाच्च द्रव्यस्य निरवयवत्वमसिद्धम् । निमित्तादृष्टादिनाशाद्विनाशः प्रलये सम्भवति, मुक्तौ ज्ञानादज्ञाननाशे तत्कार्याणुनाशसम्भव इति भावः ।

यदुक्तं यत्कार्यद्रव्यं तत्संयोगसचिवानेकद्रव्यारब्धमिति, तन्नेत्याह -

तथा कार्यारम्भोऽपीति ।

कैवल्यं प्राधान्यम् । कार्यद्रव्यस्थितावपि हेतुत्वात्संयोगस्य क्षीरारम्भकसंयोगाद्दध्यारम्भकं न संयोगान्तरम् , तथा च दध्यादौ व्यभिचारान्न व्याप्तिरित्यर्थः । किञ्च यत्कार्यद्रव्यं तद्द्रव्यारभ्यमित्येव व्याप्तिरस्तु लाघवात् , न तु संयोगसचिवस्वन्यूनपरिमाणानेकद्रव्यारभ्यमिति, गौरवात् , दीर्घविस्तृतदुकूलारब्धरज्जौ न्यूनपरिमाणायां व्यभिचाराच्च । न च रज्जुर्न द्रव्यान्तरमिति वाच्यम् , अवयविमात्रविप्लवापातात् । किञ्च निरवयवद्रव्यत्वस्यैकात्मवृत्तित्वे लाघवान्न निरवयवानेकाणुसिद्धिः । यत्त्वणुत्वतारतम्यविश्रान्तिभूमित्वेन तत्सिद्धिरिति । तन्न । त्र्यणुकत्वेनोक्तत्रुटिषु विश्रान्तेः । न च त एव त्रुटिनामानो जगद्धतेव इति वाच्यम् , पृथिवीत्वादिना सावयवत्वानित्यत्वयोरनुमानात् । न चावयवत्वस्य क्वचिद्विश्रान्तौ परमाणुसिद्धिरविश्रान्तावनवस्थेति वाच्यम् , मायायां ब्रह्मणि वावयवत्वविश्रान्तिसम्भवात् । अतो न किञ्चिदणुसद्भावे प्रमाणम् । निरवयवानां संयोगसमवाययोरसम्भवात्समवेतद्व्यणुकाद्यारम्भकत्वायोग इत्यादि बाधकमुक्तमेव ।

सम्प्रति 'अपरिग्रहाच्च' इति सूत्रवाक्यशेषं पूरयन्नधिकरणार्थमुपसंहरति -

तदेवमिति ।

तस्माद्भ्रान्तिमूलेन वैशेषिकमतेन वेदान्ततात्पर्यस्याविरोध इति सिद्धम् ॥१७॥