ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥
उक्तमेतत्अविद्यादीनामुत्पत्तिमात्रनिमित्तत्वान्न सङ्घातसिद्धिरस्तीति; तदपि तु उत्पत्तिमात्रनिमित्तत्वं सम्भवतीतीदमिदानीमुपपाद्यतेक्षणभङ्गवादिनोऽयमभ्युपगमःउत्तरस्मिन्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यत इति चैवमभ्युपगच्छता पूर्वोत्तरयोः क्षणयोर्हेतुफलभावः शक्यते सम्पादयितुम् , निरुध्यमानस्य निरुद्धस्य वा पूर्वक्षणस्याभावग्रस्तत्वादुत्तरक्षणहेतुत्वानुपपत्तेःअथ भावभूतः परिनिष्पन्नावस्थः पूर्वक्षण उत्तरक्षणस्य हेतुरित्यभिप्रायः, तथापि नोपपद्यते, भावभूतस्य पुनर्व्यापारकल्पनायां क्षणान्तरसम्बन्धप्रसङ्गात्अथ भाव एवास्य व्यापार इत्यभिप्रायः, तथापि नैवोपपद्यते, हेतुस्वभावानुपरक्तस्य फलस्योत्पत्त्यसम्भवात्स्वभावोपरागाभ्युपगमे , हेतुस्वभावस्य फलकालावस्थायित्वे सति, क्षणभङ्गाभ्युपगमत्यागप्रसङ्गःविनैव वा स्वभावोपरागेण हेतुफलभावमभ्युपगच्छतः सर्वत्र तत्प्राप्तेरतिप्रसङ्गःअपि चोत्पादनिरोधौ नाम वस्तुनः स्वरूपमेव वा स्याताम् , अवस्थान्तरं वा, वस्त्वन्तरमेव वासर्वथापि नोपपद्यतेयदि तावद्वस्तुनः स्वरूपमेवोत्पादनिरोधौ स्याताम् , ततो वस्तुशब्द उत्पादनिरोधशब्दौ पर्यायाः प्राप्नुयुःअथास्ति कश्चिद्विशेष इति मन्येतउत्पादनिरोधशब्दाभ्यां मध्यवर्तिनो वस्तुन आद्यन्ताख्ये अवस्थे अभिलप्येते इति, एवमप्याद्यन्तमध्यक्षणत्रयसम्बन्धित्वाद्वस्तुनः क्षणिकत्वाभ्युपगमहानिःअथात्यन्तव्यतिरिक्तावेवोत्पादनिरोधौ वस्तुनः स्याताम्अश्वमहिषवत् , ततो वस्तु उत्पादनिरोधाभ्यामसंसृष्टमिति वस्तुनः शाश्वतत्वप्रसङ्गःयदि दर्शनादर्शने वस्तुन उत्पादनिरोधौ स्याताम् , एवमपि द्रष्टृधर्मौ तौ वस्तुधर्माविति वस्तुनः शाश्वतत्वप्रसङ्ग एवतस्मादप्यसङ्गतं सौगतं मतम् ॥ २० ॥

द्विविधो हि कार्यसमुत्पादः सुगतसम्मतो हेत्वधीनः कारणसमुदायाधीनश्चेति । तत्राविद्यातः संस्कारस्ततो विज्ञानमित्येवंरूपः प्रथमः, पृथिव्यादिसमुदायात्काय इत्येवं द्वितीयः । तत्राद्यमङ्गीकृत्य द्वितीयः सङ्घातकर्त्रभावेन दूषितः । सम्प्रत्याद्यं दूषयति सूत्रकारः -

उत्तरेति ।

क्षणिकोऽर्थः क्षणिक इत्युच्यते । निरुध्यमानत्वं विनाशकसान्निध्यम् , निरुद्धत्वमतीतत्वम् ।

ननु कार्यकाले विनाशव्याप्तत्वेऽपि पूर्वक्षणे सत्त्वात्क्षणिकार्थस्य हेतुत्वमक्षतमिति शङ्कते -

अथ भावेति ।

सद्रूप इत्यर्थः ।

किं हेतोरुत्पत्त्यतिरिक्तः कार्योत्पादनाख्यो व्यापारः, अनतिरिक्तो वा । नाद्य इत्युक्त्या द्वितीयं शङ्कते -

अथेति ।

भाव उत्पत्तिः । उक्तं हि 'भूतिर्येषां क्रिया सैव कारकं सैव चोच्यत' इति । येषां क्षणिकभावानां या भूतिः सैव क्रिया कारकं चेत्यर्थः । नष्टस्यापि निमित्तत्त्वं स्यान्नोपादानत्वम् , तथा च मृदादेर्घटादिकालासत्त्वे घटाद्यनुत्पत्तिः ।

सत्त्वे च क्षणिकत्वहानिरिति परिहरति -

तथापीत्यादिना ।

प्रथमपक्षेक्तदोषं द्रढयति -

विनैवेति ।

वस्तुनो जन्मध्वंसानिरूपाणाच्च न क्षणिकत्वमित्याह -

अपि चेति ।

तयोः स्वरूपत्वे वस्तुन्यन्तर्भावाद्वस्तुनोऽनाद्यनन्तत्वमित्यपि द्रष्टव्यम् ।

द्वितीयं शङ्कते -

अथास्तीति ।

विशेषमेवाह -

उत्पादेति ।

दूषयति -

एवमपीति ।

ताभ्यां संसर्गे वस्तुनः क्षणिकत्वभङ्गः स्यात् ।

संसर्ग एव नास्तीति तृतीयकल्पमुत्थाप्य दूषयति -

अथात्यन्तेति ॥२०॥