ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥
क्षणभङ्गवादे पूर्वक्षणो निरोधग्रस्तत्वान्नोत्तरस्य क्षणस्य हेतुर्भवतीत्युक्तम्अथासत्येव हेतौ फलोत्पत्तिं ब्रूयात् , ततः प्रतिज्ञोपरोधः स्यात्चतुर्विधान्हेतून्प्रतीत्य चित्तचैत्ता उत्पद्यन्त इतीयं प्रतिज्ञा हीयेतनिर्हेतुकायां चोत्पत्तावप्रतिबन्धात्सर्वं सर्वत्रोत्पद्येतअथोत्तरक्षणोत्पत्तिर्यावत्तावदवतिष्ठते पूर्वक्षण इति ब्रूयात् , ततो यौगपद्यं हेतुफलयोः स्यात्; तथापि प्रतिज्ञोपरोध एव स्यात्क्षणिकाः सर्वे संस्कारा इतीयं प्रतिज्ञोपरुध्येत ॥ २१ ॥

सूत्रं व्याख्यातुं वृत्तं स्मारयति -

क्षणभङ्गेति ।

किं कार्योत्पत्तिर्निर्हेतुका सहेतुका वा । आद्ये प्रतिज्ञाहानिरित्याह -

अथासत्येवेत्यादिना ।

विषयकरणसहकारिसंस्काराश्चतुर्विधा हेतवस्तान् प्रतीत्य प्राप्य चित्तं रूपादिविज्ञानं चैत्ताश्चित्तात्मकाः सुखादयश्च जायन्त इति प्रतिज्ञार्थः । यथा नीलविज्ञानस्य नीलवस्त्वालम्बनप्रत्ययो विषयः, चक्षुः करणमधिपतिप्रत्ययः, सहकारिप्रत्यय आलोकः, समनन्तरपूर्वप्रत्ययः संस्कार इति भेदः ।

प्रतिज्ञाहानिं पुरुषदोषमुक्त्वा वस्तुदोषमप्याह -

निर्हेतुकायां चेति ।

सहेतुकत्वपक्षेऽन्वयिकारणस्य मृदादेः कार्यसहभावापत्त्या क्षणिकत्वप्रतिज्ञाहानिरिति सूत्रशेषं व्याचष्टे -

अथोत्तरक्षणेत्यादिना ।

सम्यक्क्रियन्त इति संस्काराः । आद्यन्तवन्तो भावा इत्यर्थः ॥२१॥