ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
प्रतिसंख्याऽप्रतिसंख्यानिरोधाप्राप्तिरविच्छेदात् ॥ २२ ॥
अपि वैनाशिकाः कल्पयन्तिबुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं चेतितदपि त्रयम्प्रतिसंख्याप्रतिसंख्यानिरोधौ आकाशं चेत्याचक्षतेत्रयमपि चैतत् अवस्तु अभावमात्रं निरुपाख्यमिति मन्यन्तेबुद्धिपूर्वकः किल विनाशो भावानां प्रतिसंख्यानिरोधो नाम भाष्यतेतद्विपरीतोऽप्रतिसंख्यानिरोधःआवरणाभावमात्रमाकाशमितितेषामाकाशं परस्तात्प्रत्याख्यास्यतिनिरोधद्वयमिदानीं प्रत्याचष्टेप्रतिसंख्याप्रतिसंख्यानिरोधयोः अप्राप्तिरसम्भव इत्यर्थःकस्मात् ? अविच्छेदात्एतौ हि प्रतिसंख्याप्रतिसंख्यानिरोधौ सन्तानगोचरौ वा स्याताम् , भावगोचरौ वा ? तावत्सन्तानगोचरौ सम्भवतः, सर्वेष्वपि सन्तानेषु सन्तानिनामविच्छिन्नेन हेतुफलभावेन सन्तानविच्छेदस्यासम्भवात्नापि भावगोचरौ सम्भवतः हि भावानां निरन्वयो निरुपाख्यो विनाशः सम्भवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्यविच्छेददर्शनात् , अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिद्दृष्टेनान्वय्यविच्छेदेनान्यत्रापि तदनुमानात्तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपत्तिः ॥ २२ ॥

एवमाद्यसूत्राभ्यां समुदायो निरस्तः । उत्तरसूत्राभ्यां कार्यकारणभावक्षणिकत्वे निरस्ते । सम्प्रति तदभिमतं द्विविधं विनाशं दूषयति -

प्रतिसङ्ख्येति ।

संस्कृतमुत्पाद्यं बुद्धिबोध्यं प्रमेयमात्रम् , त्रयात्तुच्छरूपादन्यदित्यर्थः ।

किं तत्त्रयम् , तदाह -

तदपीति ।

निरुपाख्यं निःस्वरूपम् । प्रतीपा प्रतिकूला सङ्ख्या सन्तं भावमसन्तं करोमीत्येवंरूपा बुद्धिः प्रतिसङ्ख्या, तया निरोधः कस्यचिद्भावस्य भवति ।

अबुद्धिपूर्वकस्तु स्तम्भादीनां स्वरसभङ्गुराणामित्याह -

तद्विपरीत इति ।

परक्रियामुक्त्वा सूत्रं व्याचष्टे -

तेषामिति ।

भावाः सन्तानिनः । सन्तानो नाम भावानां हेतुफलभावेन प्रवाहः, तस्मिन् सन्ताने चरमक्षणः क्षणान्तरं करोति वा न वा । आद्ये चरमत्वव्याघातः, सन्तानाविच्छेदात् । द्वितीये चरमस्यासत्त्वप्रसङ्गः, अर्थक्रियाकारित्वं सत्त्वमिति स्वसिद्धान्तात् , चरमस्यासत्त्वे पूर्वेषामप्यसत्त्वप्रसङ्गः, अर्थक्रियाशून्यत्वात् ।

तस्मात्सन्तानस्य विच्छेदासम्भवान्निरोधाप्राप्तिरित्याह -

न तावदिति ।

न द्वितीय इत्याह -

नापीति ।

घटकपालचूर्णाद्यवस्थासु सेयं मृदिति प्रत्यभिज्ञानादन्वयिभावस्य मृदादेर्नात्यन्तिकविनाश इत्यर्थः ।

बीजस्याङ्कुरादिषु प्रत्यभिज्ञानादर्शनादन्वयिनो विच्छेद इत्यत आह -

अस्पष्टेति ।

अङ्कुरादयोऽनुस्यूतान्वयिभावस्थाः, कार्यत्वात् पटवदित्यन्वय्यविच्छेदसिद्धिरित्यर्थः । यस्माद्भावानां स्थायित्वं तस्मात्प्रतिक्षणनिरोधासम्भव इत्युपसंहारः ॥२२॥