ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
उभयथा च दोषात् ॥ २३ ॥
योऽयमविद्यादिनिरोधः प्रतिसंख्यानिरोधान्तःपाती परपरिकल्पितः, सम्यग्ज्ञानाद्वा सपरिकरात्स्यात्; स्वयमेव वा ? पूर्वस्मिन्विकल्पे निर्हेतुकविनाशाभ्युपगमहानिप्रसङ्गः; उत्तरस्मिंस्तु मार्गोपदेशानर्थक्यप्रसङ्गःएवमुभयथापि दोषप्रसङ्गादसमञ्जसमिदं दर्शनम् ॥ २३ ॥

अविद्यादीनां प्रतिसङ्ख्यानिरोधं तदभिमतं दूषयति -

उभयथेति ।

यमनियमादयः परिकराः । सर्वं दुःखं क्षणिकमिति भावनोपदेशो मार्गोपदेशः ॥२३॥