ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
आकाशे चाविशेषात् ॥ २४ ॥
यच्च तेषामेवाभिप्रेतं निरोधद्वयमाकाशं च निरुपाख्यमिति — तत्र निरोधद्वयस्य निरुपाख्यत्वं पुरस्तान्निराकृतम् । आकाशस्येदानीं निराक्रियते । आकाशे चायुक्तो निरुपाख्यत्वाभ्युपगमः, प्रतिसंख्याप्रतिसंख्यानिरोधयोरिव वस्तुत्वप्रतिपत्तेरविशेषात् । आगमप्रामाण्यात्तावत् ‘आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यादिश्रुतिभ्य आकाशस्य च वस्तुत्वप्रसिद्धिः । विप्रतिपन्नान्प्रति तु शब्दगुणानुमेयत्वं वक्तव्यम् — गन्धादीनां गुणानां पृथिव्यादिवस्त्वाश्रयत्वदर्शनात् । अपि च आवरणाभावमात्रमाकाशमिच्छताम् , एकस्मिन्सुपर्णे पतत्यावरणस्य विद्यमानत्वात्सुपर्णान्तरस्योत्पित्सतोऽनवकाशत्वप्रसङ्गः । यत्रावरणाभावस्तत्र पतिष्यतीति चेत् — येनावरणाभावो विशेष्यते, तत्तर्हि वस्तुभूतमेवाकाशं स्यात् , न आवरणाभावमात्रम् । अपि च आवरणाभावमात्रमाकाशं मन्यमानस्य सौगतस्य स्वाभ्युपगमविरोधः प्रसज्येत । सौगते हि समये ‘पृथिवी भगवः किंसन्निश्रया’ इत्यस्मिन्प्रश्नप्रतिवचनप्रवाहे पृथिव्यादीनामन्ते ‘वायुः किंसन्निश्रयः’ इत्यस्य प्रश्नस्य प्रतिवचनं भवति — ‘वायुराकाशसन्निश्रयः’ इति । तदाकाशस्यावस्तुत्वे न समञ्जसं स्यात् । तस्मादप्ययुक्तमाकाशस्यावस्तुत्वम् । अपि च निरोधद्वयमाकाशं च त्रयमप्येतन्निरुपाख्यमवस्तु नित्यं चेति विप्रतिषिद्धम् । न ह्यवस्तुनो नित्यत्वमनित्यत्वं वा सम्भवति, वस्त्वाश्रयत्वाद्धर्मधर्मिव्यवहारस्य । धर्मधर्मिभावे हि घटादिवद्वस्तुत्वमेव स्यात् , न निरुपाख्यत्वम् ॥ २४ ॥

आगमप्रामाण्यादिति ।

तत्राकाशस्य कार्यत्वोक्त्या घटादिवद्वस्तुत्वं प्रसिध्यतीत्यर्थः ।

नन्वागमप्रामाण्ये विप्रतिपन्नान्सुगतान्प्रत्याकाशस्य वस्तुत्वं कथं सिध्यतीत्यत आह -

विप्रतिपन्नानिति ।

शब्दो वस्तुनिष्ठः गुणत्वात् , गन्धादिवदित्यनुमानादाकाशस्य वस्तुत्वं सिध्यति । पृथिव्याद्यष्टद्रव्याणां श्रोत्रग्राह्यगुणाश्रयत्वायोगादित्यर्थः ।

आकाशस्य भावत्वं प्रसाध्याभावत्वं दूषयति -

अपि चेति ।

यथैकघटसत्त्वेऽपि घटसामान्याभावो नास्ति तथैकपक्षिसत्त्वेऽपि मूर्तद्रव्यसामान्याभावात्मकाकाशो नास्त्येवेति पक्ष्यन्तरसञ्चारो न स्यादित्यर्थः ।

देशविशेषावच्छेदेनावरणाभावोऽस्तीत्याशङ्क्याभावावच्छेदकदेशविशेष एवाकाशो नाभाव इत्याह -

यत्रेत्यादिना ।

पतिष्यति । पक्षी सञ्चरिष्यतीत्यर्थः ।

आकाशस्यावस्तुत्वं स्वग्रन्थविरुद्धं चेत्याह -

अपि चेति ।

किं सम्यक् निश्रय आश्रयोऽस्या इति किंसन्निश्रया । अवस्तुनः शशविषाणस्याश्रयत्वादर्शनादिति ।

व्याघातान्तरमाह -

अपि चेति ।

ध्वंसाप्रतियोगिताख्यो धर्मो नित्यत्वं नासति सम्भवति । धर्मिणोऽसत्त्वव्याघातादित्यर्थः ॥२४॥