ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनुस्मृतेश्च ॥ २५ ॥
अपि वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात् सा सम्भवति; अनुस्मृतेःअनुभवम् उपलब्धिमनूत्पद्यमानं स्मरणमेव अनुस्मृतिःसा चोपलब्ध्येककर्तृका सती सम्भवति, पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात्कथं हिअहमदोऽद्राक्षम्इदं पश्यामिइति पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात्अपि दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः — ‘अहमदोऽद्राक्षम्इदं पश्यामिइतियदि हि तयोर्भिन्नः कर्ता स्यात् , ततःअहं स्मरामिअद्राक्षीदन्यःइति प्रतीयात्; त्वेवं प्रत्येति कश्चित्यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति — ‘स्मराम्यहम्असावदोऽद्राक्षीत्इतिइह तुअहमदोऽद्राक्षम्इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति; नाहम्इत्यात्मनो दर्शनं निर्वृत्तं निह्नुतेयथा अग्निरनुष्णोऽप्रकाश इति वातत्रैवं सत्येकस्य दर्शनस्मरणलक्षणक्षणद्वयसम्बन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात्तथा अनन्तरामनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकाम् उत्तमादुच्छ्वासात् , अतीताश्च प्रतिपत्तीः जन्मन आत्मैककर्तृकाः प्रतिसन्दधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ? यदि ब्रूयात् सादृश्यादेतत्सम्पत्स्यत इति, तं प्रतिब्रूयात्तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात् , सादृश्यनिमित्तं प्रतिसन्धानमिति मिथ्याप्रलाप एव स्यात्स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड्येत । ‘तेनेदं सदृशम्इति प्रत्ययान्तरमेवेदम् , पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत् , ; तेन इदम् इति भिन्नपदार्थोपादानात्प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात् , ‘तेनेदं सदृशम्इति वाक्यप्रयोगोऽनर्थकः स्यात् , सादृश्यम् इत्येव प्रयोगः प्राप्नुयात्यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन बुद्धिसन्तानमारोहतिएवमेवैषोऽर्थः इति निश्चितं यत् , तदेव वक्तव्यम्ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् चायं सादृश्यात्संव्यवहारो युक्तः; तद्भावावगमात् , तत्सदृशभावानवगमाच्चभवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसम्भवात्तदेवेदं स्यात् , तत्सदृशं वाइति सन्देहःउपलब्धरि तु सन्देहोऽपि कदाचिद्भवति — ‘ एवाहं स्यां तत्सदृशो वाइति, ‘ एवाहं पूर्वेद्युरद्राक्षं एवाहमद्य स्मरामिइति निश्चिततद्भावोपलम्भात्तस्मादप्यनुपपन्नो वैनाशिकसमयः ॥ २५ ॥

आत्मनः क्षणिकत्वं दूषयति -

अनुस्मृतेरिति ।

अनुभवजन्यस्मृतिरनुस्मृतिस्तस्यामनुभवसमानाश्रयत्वात्तदुभयाश्रयात्मनः स्थायित्वमित्यर्थः ।

क्षणिकत्वे ज्ञानद्वयानुसन्धानं च न स्यादित्याह -

कथं ह्यहमिति ।

पूर्वदर्शनकर्तुरद्राक्षमिति स्मरणकर्तैक्यप्रत्यभिज्ञानाच्चात्मानः स्थायित्वमित्याह -

अपि चेति ।

योऽहमदः पूर्वमद्राक्षं स एवाहमद्य तत्स्मरामीति प्रत्यभिज्ञानाकारो द्रष्टव्यः । इदं पश्यामीति ज्ञानान्तरसम्बन्धकथनम् , योऽहमद्राक्षं सोऽहं पश्यामीति प्रत्यभिज्ञान्तरद्योतनार्थम् ।

विपक्षे बाधकमाह -

यदि हीति ।

द्रष्टृस्मर्त्रोर्भेदेऽहं स्मरामि अन्योऽद्राक्षीदिति प्रतीतिः स्यादित्यत्र दृष्टान्तमाह -

यत्रैवमिति ।

प्रत्ययमाह -

स्मरामीति ।

स्मराम्यहमन्योऽद्राक्षीदिति प्रत्ययो यत्र तत्र भिन्नमेव कर्तारं लोकोऽवगच्छतीत्यविवादमित्यर्थः ।

प्रकृतप्रत्यभिज्ञायां तादृशभेदप्रत्ययस्य बाधकस्यादर्शनादात्मस्थायित्वं दुर्वारमित्याह -

इह त्वहमद इति ।

यथाग्नेरौष्ण्यादिकं न बाधते कश्चित्तथा नाहमद्राक्षमिति पूर्वदर्शनं न निह्नुत इत्यनेन बाधाभावात्प्रत्यभिज्ञा प्रमेत्युक्तं भवति ।

तथा द्रष्टृस्मर्त्रोरैक्ये सति स्थायित्वं फलितमित्याह -

तत्रैवं सतीति ।

क्षणद्वयसम्बन्धेऽप्यात्मनस्तृतीयक्षणे भङ्गोऽस्त्विति वदन्तं प्रत्याह -

तथेति ।

वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरामनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन्ना जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतिपत्तीः स्वकर्तृकाः प्रतिसन्दधानःसन्निति योजना ।

दीपज्वालास्विवात्मनि प्रत्यभिज्ञानं सादृश्यदोषादिति शङ्कते -

स इति ।

सादृश्यज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनत्वात्स्थिरस्य ज्ञातुरसत्त्वान्न सादृश्यज्ञानं सम्भवति, सत्त्वे वापसिद्धान्तः स्यादिति परिहरति -

तमित्यादिना ।

स्यादेतत् । न सादृश्यप्रत्ययः पूर्वोत्तरवस्तुद्वयज्ञानजन्यस्तद्द्वयसादृश्यावगाही, किं तर्हि कश्चिदेष विकल्पः स्वाकारमेव बाह्यत्वेन विषयीकुर्वाणः क्षणान्तरास्पर्शी, अतो न स्थिरद्रष्ट्रपेक्षेति शङ्कते -

तेनेदमिति ।

अत्र वक्तव्यं सादृश्यप्रत्यये तेनेदं सदृशमिति वस्तुत्रयं भासते न वेति । नेति वदतः स्वानुभवविरोधः । किञ्चार्थभेदाभावात्पदत्रयप्रयोगो न स्यात् ।

तस्मात्पदत्रयेण मिथःसंसृष्टभिन्नार्थभानादभानमसिद्धमिति परिहरति -

न तेनेति ।

अथ भासते वस्तुत्रयं तच्च प्रत्ययाभिन्नमेव न बाह्यमिति चेत् । न । त्रयाणामेकप्रत्ययाभेदे मिथोऽप्यभेदापत्तेः ।

इष्टापत्तिरिति ब्रुवाणं विज्ञानवादिनं प्रत्याह -

यदा हीति ।

वस्तुत्रयं ज्ञेयं सादृश्यप्रत्ययाद्भिन्नं सर्वलोकप्रसिद्धं तच्चेन्नाङ्गीक्रियते स्थायिद्रष्टृप्रसङ्गभयेन, तर्हि तत्तदाकाराणां क्षणिकविज्ञानानां मिथो वार्तानभिज्ञत्वादेकस्मिन् धर्मिणि विरुद्धानेकपक्षस्फुरणात्मकविप्रतिपत्त्यसम्भवात्स्वपक्षसाधनादिव्यवहारो लुप्येत, अतो यथानुभवं ज्ञानज्ञेयभेदोऽङ्गीकार्यः । तथा च तेनेदं सदृशमिति बाह्यार्थयोर्ज्ञानपूर्वकं सादृश्यं जानत आत्मनः स्थायित्वं दुर्वारमित्यर्थः ।

ननु सन्त्येव बाह्यार्थाः क्षणिकस्वलक्षणा निर्विकल्पकग्राह्याः, सविकल्पाध्यवसेयास्तु स्थायित्वसादृश्यादयो बाह्याः कल्पिता अवभासन्ते, अतो विप्रतिपत्त्यादिव्यवहार इति बाह्यार्थवादमाशङ्क्य निरस्यति -

एवमेवेति ।

यत्प्रमाणसिद्धं तदेव वक्तव्यम् । न हि क्षणिकत्वे किञ्चित्प्रमाणमस्ति । न चेदानीं घट इति प्रत्यक्षमवर्तमानकालासत्त्वं घटस्य गोचरयद्वर्तमानक्षणमात्रसत्त्वरूपे क्षणिकत्वे मानमिति वाच्यम् , तस्य वर्तमानत्वमात्रगोचरत्वेन कालान्तरासत्त्वासिद्धेः । न च यत्सत्तत्क्षणिकमिति व्याप्तिरस्ति, विद्युदादेरपि द्वित्रिक्षणस्थायित्वेन दृष्टान्ताभावात् । न च स्थायिनमनुमातारमन्तरेणानुमानं सम्भवति । तस्मादमानसिद्धार्थवक्ता तथागतोऽश्रद्धेयवचन इत्यर्थः । किञ्च सादृश्यं प्रत्यभिज्ञायां दोषतया निमित्तं विषयतया वा । आद्येऽपि स्वरूपसत् ज्ञातं वा । नाद्यः, मन्दान्धकारे शुक्तिमात्रग्रहे श्वैत्याज्ञानेऽपि रूप्याभेदभ्रमापत्तेः । न द्वितीयः, स्थायिज्ञातारं विना तज्ज्ञानासम्भवस्योक्तत्वात् ।

नापि विषयतया निमित्तमित्याह -

न चेति ।

सोऽहमित्युल्लेखात्तेनाहं सदृश इत्यनुल्लेखादित्यर्थः ।

सोऽहमिति प्रत्यभिज्ञाया भ्रमत्वं निरस्य संशयत्वं निरस्यति -

भवेदिति ।

जडार्थे प्रत्यभिज्ञातेऽपि बाधसम्भावनया संशयः कदाचित्स्यान्नात्मनीत्यर्थः ।

असन्दिग्घाविपर्यस्तप्रत्यभिज्ञाविरोधादात्मक्षणिकत्वमतमत्यन्तासङ्गतमित्युपसंहरति -

तस्मादिति ॥२५॥