ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नासतोऽदृष्टत्वात् ॥ २६ ॥
इतश्चानुपपन्नो वैनाशिकसमयः, यतः स्थिरमनुयायिकारणमनभ्युपगच्छताम् अभावाद्भावोत्पत्तिरित्येतदापद्येत । दर्शयन्ति चाभावाद्भावोत्पत्तिम् — ‘नानुपमृद्य प्रादुर्भावात्’ इति । विनष्टाद्धि किल बीजादङ्कुर उत्पद्यते, तथा विनष्टात्क्षीराद्दधि, मृत्पिण्डाच्च घटः । कूटस्थाच्चेत्कारणात्कार्यमुत्पद्येत, अविशेषात्सर्वं सर्वत उत्पद्येत । तस्मादभावग्रस्तेभ्यो बीजादिभ्योऽङ्कुरादीनामुत्पद्यमानत्वादभावाद्भावोत्पत्तिः — इति मन्यन्ते । तत्रेदमुच्यते — ‘नासतोऽदृष्टत्वात्’ इति । नाभावाद्भाव उत्पद्यते । यद्यभावाद्भाव उत्पद्येत, अभावत्वाविशेषात्कारणविशेषाभ्युपगमोऽनर्थकः स्यात् । न हि, बीजादीनामुपमृदितानां योऽभावस्तस्याभावस्य शशविषाणादीनां च, निःस्वभावत्वाविशेषादभावत्वे कश्चिद्विशेषोऽस्ति; येन, बीजादेवाङ्कुरो जायते क्षीरादेव दधि — इत्येवंजातीयकः कारणविशेषाभ्युपगमोऽर्थवान्स्यात् । निर्विशेषस्य त्वभावस्य कारणत्वाभ्युपगमे शशविषाणादिभ्योऽप्यङ्कुरादयो जायेरन्; न चैवं दृश्यते । यदि पुनरभावस्यापि विशेषोऽभ्युपगम्येत — उत्पलादीनामिव नीलत्वादिः, ततो विशेषवत्त्वादेवाभावस्य भावत्वमुत्पलादिवत्प्रसज्येत । नाप्यभावः कस्यचिदुत्पत्तिहेतुः स्यात् , अभावत्वादेव, शशविषाणादिवत् । अभावाच्च भावोत्पत्तावभावान्वितमेव सर्वं कार्यं स्यात्; न चैवं दृश्यते, सर्वस्य च वस्तुनः स्वेन स्वेन रूपेण भावात्मनैवोपलभ्यमानत्वात् । न च मृदन्विताः शरावादयो भावास्तन्त्वादिविकाराः केनचिदभ्युपगम्यन्ते । मृद्विकारानेव तु मृदन्वितान्भावान् लोकः प्रत्येति । यत्तूक्तम् — स्वरूपोपमर्दमन्तरेण कस्यचित्कूटस्थस्य वस्तुनः कारणत्वानुपपत्तेरभावाद्भावोत्पत्तिर्भवितुमर्हतीति, तद्दुरुक्तम् , स्थिरस्वभावानामेव सुवर्णादीनां प्रत्यभिज्ञायमानानां रुचकादिकार्यकारणभावदर्शनात् । येष्वपि बीजादिषु स्वरूपोपमर्दो लक्ष्यते, तेष्वपि नासावुपमृद्यमाना पूर्वावस्था उत्तरावस्थायाः कारणमभ्युपगम्यते, अनुपमृद्यमानानामेवानुयायिनां बीजाद्यवयवानामङ्कुरादिकारणभावाभ्युपगमात् । तस्मादसद्भ्यः शशविषाणादिभ्यः सदुत्पत्त्यदर्शनात् , सद्भ्यश्च सुवर्णादिभ्यः सदुत्पत्तिदर्शनात् , अनुपपन्नोऽयमभावाद्भावोत्पत्त्यभ्युपगमः । अपि च चतुर्भिश्चित्तचैत्ता उत्पद्यन्ते परमाणुभ्यश्च भूतभौतिकलक्षणः समुदाय उत्पद्यते — इत्यभ्युपगम्य, पुनरभावाद्भावोत्पत्तिं कल्पयद्भिरभ्युपगतमपह्नुवानैर्वैनाशिकैः सर्वो लोक आकुलीक्रियते ॥ २६ ॥

अभावः शशविषाणवदत्यन्तासन्नित्यङ्गीकृत्य मृदादिनाशादसतो घटादिकं जायते इति सुगता वदन्ति, तद्दूषयति -

नासत इति ।

न केवलं बलादापद्यते किन्तु स्वयं दर्शयन्ति च । द्वौ नञौ प्रकृतार्थं गमयतः ।

मृदादिकमुपमृद्य घटादेः प्रादुर्भावादितीममर्थमाह -

विनष्टादिति ।

कारणविनाशात्कार्यजन्मेत्यत्र युक्तिमाह -

कूटस्थादिति ।

विनाशशून्यात् । नित्यादित्यर्थः । नित्यस्य निरतिशयस्य कार्यशक्तत्वे तत्कार्याणि सर्वाण्येकस्मिन्नेव क्षणे स्युः, तथा चोत्तरक्षणे कार्याभावादसत्त्वापत्तिः । न च सहकारिकृतातिशयक्रमात्कार्यक्रम इति युक्तम् । अतिशयस्यातिशयान्तरापेक्षायामनवस्थानात् । अनपेक्षायां कार्यस्याप्यतिशयानपेक्षत्वेन सहकारिवैयर्थ्यात् । तस्मान्न स्थायिभवात्कार्यजन्मेत्यर्थः । क्षणिकभावस्य हेतुत्वम् 'उत्तरोत्पादे च' इत्यत्र निरस्तम् ।

अभावस्य हेतुत्वनिरासार्थं सूत्रं व्याचष्टे -

तत्रेदमिति ।

यदि बीजाभावस्याभावान्तराद्विशेषः स्यात् , तदा विशेषवदभावद्वारा बीजादेवाङ्कुर इति लौकायतिकानामभ्युपगमोऽर्थवान्स्यात् , न सोऽस्तीत्याह -

येनेति ।

सूत्रं योजयति -

निर्विशेषस्येति ।

शशविषाणादेः कार्यकारित्वस्यादृष्टत्वान्नाभावस्यासतो हेतुत्वमित्यर्थः ।

अस्त्वभावस्यापि विशेष इत्यत आह -

यदीति ।

अभावस्य हेतुत्वेऽतिप्रसङ्ग इति तर्कमुक्त्वानुमानमाह -

नापीति ।

अभावो न हेतुः, असत्त्वात् । सम्मतवदित्यर्थः ।

अभावो न प्रकृतिः, कार्यानन्वितत्वात् , यथा शरावाद्यनन्वितस्तन्तुर्न शरावादिप्रकृतिरिति तर्कपूर्वकमाह -

अभावाच्चेति ।

अतोऽन्वितत्वान्मृदादिर्भाव एव प्रकृतिरित्याह -

मृदिति ।

स्थायिनः कारणत्वायोगमुक्तमनूद्य दूषयति -

यत्तूक्तमित्यादिना ।

अनुभवबलात्स्थिरस्वभावानामेव सहकारिसन्निधिक्रमेण कार्यक्रमहेतुत्वमङ्गीकार्यम् । न च शक्तस्य सहकार्यपेक्षा न युक्तेति वाच्यम् , यतोऽशक्तस्यापि नापेक्षेत्यसहकारि विश्वं स्यात् । ततः स्वर्णादौ स्वतोऽतिशयशून्येऽग्नितापादिसहकारिकृतातिशयक्रमाद्रुचकादिकार्यक्रमः । न चातिशयस्यातिशयान्तरानपेक्षत्वे कार्यस्याप्यनपेक्षेति वाच्यम् , पटस्य मृदनपेक्षत्वे कार्यत्वाविशेषाद्घटस्यापि मृदनपेक्षाप्रसङ्गादन्वयव्यतिरेकाभ्यामपेक्षा सहकारिष्वपि तुल्या । यदुक्तं कार्याभावदशायां कारणस्यासत्त्वापत्तिरिति । तन्न । अकारणस्यापि बाधाभावेन सत्त्वोपपत्तेः । न ह्यर्थक्रियाकारित्वमेव सत्त्वम् , असतस्तदयोगेन सत्त्वस्य ततो भेदात् । सतो ह्यर्थक्रियाकारित्वं नासतः । अतः कारणतावच्छेदकमबाधितस्वरूपात्मकं सत्त्वं कारणत्वाद्भिन्नमेव । तस्मादनुस्यूतस्थिरभावानां हेतुत्वमुपपन्नमिति भावः ।

पूर्वापरविरोधमप्याह -

अपि चेति ॥२६॥