ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नाभाव उपलब्धेः ॥ २८ ॥
‘नाभाव उपलब्धेरि’ ति । न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते । कस्मात् ? उपलब्धेः — उपलभ्यते हि प्रतिप्रत्ययं बाह्योऽर्थः — स्तम्भः कुड्यं घटः पट इति । न चोपलभ्यमानस्यैवाभावो भवितुमर्हति । यथा हि कश्चिद्भुञ्जानो भुजिसाध्यायां तृप्तौ स्वयमनुभूयमानायामेवं ब्रूयात् — ‘नाहं भुञ्जे न वा तृप्यामि’ इति — तद्वदिन्द्रियसन्निकर्षेण स्वयमुपलभमान एव बाह्यमर्थम् , ‘नाहमुपलभे न च सोऽस्ति’ इति ब्रुवन् , कथमुपादेयवचनः स्यात् । ननु नाहमेवं ब्रवीमि — ‘न कञ्चिदर्थमुपलभे’ इति । किं तु ‘उपलब्धिव्यतिरिक्तं नोपलभे’ इति ब्रवीमि । बाढमेवं ब्रवीषि निरङ्कुशत्वात्ते तुण्डस्य, न तु युक्त्युपेतं ब्रवीषि, यत उपलब्धिव्यतिरेकोऽपि बलादर्थस्याभ्युपगन्तव्यः, उपलब्धेरेव । न हि कश्चिदुपलब्धिमेव स्तम्भः कुड्यं चेत्युपलभते । उपलब्धिविषयत्वेनैव तु स्तम्भकुड्यादीन्सर्वे लौकिका उपलभन्ते । अतश्च एवमेव सर्वे लौकिका उपलभन्ते, यत् प्रत्याचक्षाणा अपि बाह्यमर्थम् एवमाचक्षते — ‘यदन्तर्ज्ञेयरूपं तद्बहिर्वदवभासते’ इति — तेऽपि हि सर्वलोकप्रसिद्धां बहिरवभासमानां संविदं प्रतिलभमानाः, प्रत्याख्यातुकामाश्च बाह्यमर्थम् , ‘बहिर्वत्’ इति वत्कारं कुर्वन्ति । इतरथा हि कस्मात् ‘बहिर्वत्’ इति ब्रूयुः । न हि ‘विष्णुमित्रो वन्ध्यापुत्रवदवभासते’ इति कश्चिदाचक्षीत । तस्मात् यथानुभवं तत्त्वम् अभ्युपगच्छद्भिः बहिरेवावभासते इति युक्तम् अभ्युपगन्तुम् , न तु बहिर्वत् अवभासत इति । ननु बाह्यस्यार्थस्यासम्भवात् बहिर्वदवभासते इत्यध्यवसितम् । नायं साधुरध्यवसायः, यतः प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ सम्भवासम्भवाववधार्येते, न पुनः सम्भवासम्भवपूर्विके प्रमाणप्रवृत्त्यप्रवृत्ती । यद्धि प्रत्यक्षादीनामन्यतमेनापि प्रमाणेनोपलभ्यते, तत्सम्भवति । यत्तु न केनचिदपि प्रमाणेनोपलभ्यते, तन्न सम्भवति । इह तु यथास्वं सर्वैरेव प्रमाणैर्बाह्योऽर्थ उपलभ्यमानः कथं व्यतिरेकाव्यतिरेकादिविकल्पैर्न सम्भवतीत्युच्येत — उपलब्धेरेव । न च ज्ञानस्य विषयसारूप्याद्विषयनाशो भवति, असति विषये विषयसारूप्यानुपपत्तेः, बहिरुपलब्धेश्च विषयस्य । अत एव सहोपलम्भनियमोऽपि प्रत्ययविषययोरुपायोपेयभावहेतुकः, न अभेदहेतुकः — इत्यभ्युपगन्तव्यम् । अपि च घटज्ञानं पटज्ञानमिति विशेषणयोरेव घटपटयोर्भेदः, न विशेष्यस्य ज्ञानस्य — यथा शुक्लो गौः कृष्णो गौरिति शौक्ल्यकार्ष्ण्ययोरेव भेदः, न गोत्वस्य । द्वाभ्यां च भेद एकस्य सिद्धो भवति, एकस्माच्च द्वयोः । तस्मादर्थज्ञानयोर्भेदः । तथा घटदर्शनं घटस्मरणमित्यत्रापि प्रतिपत्तव्यम् । अत्रापि हि विशेष्ययोरेव दर्शनस्मरणयोर्भेदः, न विशेषणस्य घटस्य — यथा क्षीरगन्धः क्षीररस इति विशेष्ययोरेव गन्धरसयोर्भेदः, न विशेषणस्य क्षीरस्य, तद्वत् । अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोः स्वसंवेदनेनैव उपक्षीणयोः इतरेतरग्राह्यग्राहकत्वानुपपत्तिः । ततश्च — विज्ञानभेदप्रतिज्ञा क्षणिकत्वादिधर्मप्रतिज्ञा स्वलक्षणसामान्यलक्षणवास्यवासकत्वाविद्योपप्लवसदसद्धर्मबन्धमोक्षादिप्रतिज्ञाश्च स्वशास्त्रगताः — ता हीयेरन् । किञ्चान्यत् — विज्ञानं विज्ञानमित्यभ्युपगच्छता बाह्योऽर्थः स्तम्भः कुड्यमित्येवंजातीयकः कस्मान्नाभ्युपगम्यत इति वक्तव्यम् । विज्ञानमनुभूयत इति चेत् , बाह्योऽप्यर्थोऽनुभूयत एवेति युक्तमभ्युपगन्तुम् । अथ विज्ञानं प्रकाशात्मकत्वात्प्रदीपवत्स्वयमेवानुभूयते, न तथा बाह्योऽप्यर्थ इति चेत् — अत्यन्तविरुद्धां स्वात्मनि क्रियामभ्युपगच्छसि — अग्निरात्मानं दहतीतिवत् । अविरुद्धं तु लोकप्रसिद्धम् — स्वात्मव्यतिरिक्तेन विज्ञानेन बाह्योऽर्थोऽनुभूयत इति नेच्छसि; अहो पाण्डित्यं महद्दर्शितम् । न चार्थाव्यतिरिक्तमपि विज्ञानं स्वयमेवानुभूयते, स्वात्मनि क्रियाविरोधादेव । ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्वे, तदप्यन्येन ग्राह्यं तदप्यन्येन — इत्यनवस्था प्राप्नोति । अपि च प्रदीपवदवभासात्मकत्वाज्ज्ञानस्य ज्ञानान्तरं कल्पयतः समत्वादवभास्यावभासकभावानुपपत्तेः कल्पनानर्थक्यमिति तदुभयमप्यसत् । विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः, साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः, स्वयंसिद्धस्य च साक्षिणोऽप्रत्याख्येयत्वात् । किञ्चान्यत् — प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् — शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत् । बाढमेवम् — अनुभवरूपत्वात्तु विज्ञानस्येष्टो नः पक्षस्त्वया अनुज्ञायत इति चेत् , न; अन्यस्यावगन्तुश्चक्षुःसाधनस्य प्रदीपादिप्रथनदर्शनात् । अतो विज्ञानस्याप्यवभास्यत्वाविशेषात्सत्येवान्यस्मिन्नवगन्तरि प्रथनं प्रदीपवदित्यवगम्यते । साक्षिणोऽवगन्तुः स्वयंसिद्धतामुपक्षिपता स्वयं प्रथते विज्ञानम् इत्येष एव मम पक्षस्त्वया वाचोयुक्त्यन्तरेणाश्रित इति चेत् , न; विज्ञानस्योत्पत्तिप्रध्वंसानेकत्वादिविशेषवत्त्वाभ्युपगमात् । अतः प्रदीपवद्विज्ञानस्यापि व्यतिरिक्तावगम्यत्वमस्माभिः प्रसाधितम् ॥ २८ ॥

क्षणिकविज्ञानमात्रवादस्य मानमूलत्वात्तेन नित्यविज्ञानवादो विरुध्यत इति प्राप्ते सिद्धान्तसूत्रं व्याचष्टे -

नाभाव इत्यादिना ।

किं बाह्यार्थस्यानुपलब्धेरभाव उत ज्ञानाद्भेदेनानुपलब्धेः ।

नाद्य इत्युक्तम् -

उपलब्धेरिति ।

द्वितीयं शङ्कते -

ननु नाहमिति ।

ज्ञानज्ञेययोर्विषयिविषयभावेन भेदस्य साक्षिप्रत्यक्षसिद्धत्वात्प्रत्यक्षविरुद्धमभेदाभिधानमित्याह -

बाढमित्यादिना ।

त्वद्वचनादपि जनो बाह्यार्थं ज्ञानाद्भेदेनैवोपलभत इत्याह -

अतश्चेति ।

बाह्यार्थस्यात्यन्तासत्त्वे प्रत्यक्षोपलम्भायोगात् , दृष्टान्तत्वासम्भवाच्च बहिर्वच्छब्दो न स्यादित्याह -

इतरथेति ।

अबाधितभेदानुभवादेवकारो युक्तो न वत्कार इत्याह -

तस्मादिति ।

ज्ञेयार्थो ज्ञानातिरेकेणासन्नसम्भवादित्युक्तबाधाद्वत्करणमिति शङ्कते -

नन्विति ।

कोऽसावसम्भवः, असत्त्वं वा असत्त्वनिश्चयो वा अयुक्तत्वं वा उत्कटकोटिकसंशयात्मकसम्भवस्याभावो वा । नाद्यः, साध्याभेदात् ।

न द्वितीयः, स्थूलौ घटस्तम्भाविति समूहालम्बने स्थूलत्वद्वित्वघटत्वस्तम्भत्वरूपविरुद्धधर्मवतोरर्थयोरस्थूलादेकस्माद्वयावगाहिविज्ञानाद्भेदसत्त्वनिश्चये नासम्भवासिद्धरित्याह -

नायं साधुरिति ।

सम्भवः सत्तानिश्चयः प्रमाणाधीनः ।

असम्भवोऽसत्त्वनिश्चयः प्रमाणाभावाधीनो न वैपरीत्यमिति व्यवस्थामेव स्फुटयति -

यद्धीति ।

उक्तव्यवस्थायाः फलं बाह्यार्थस्य प्रत्यक्षादिभिः सम्भवं वदन्नेव तृतीयं दूषयति -

इहेति ।

प्रमाणनिश्चितबाह्यार्थस्य स्तम्भादेः परमाणुभ्यो भेदाभेदविकल्पैरयुक्तत्वमात्रेणासत्त्वनिश्चयो न युक्तः, त्वत्पक्षेऽप्ययुक्तत्वस्य तुल्यत्वात् । न ह्यस्थूलस्यैकस्य विज्ञानस्य स्थूलानेकसमूहालम्बनस्य विषयाभेदो युक्तः, स्थूलत्वानेकत्वप्रसङ्गात् । न चेष्टापत्तिः, समूहालम्बनोच्छेदे विज्ञानानां मिथो वार्तानभिज्ञतया विषयद्वित्वादिव्यवहारलोपापत्तेः । तस्मादयुक्तत्वेऽपि यथानुभवं व्यवहारयोग्योऽर्थः स्वीकार्यः । न चतुर्थः, निश्चिते तादृशसम्भवस्यानुपयोगात् । तस्य क्वचित्प्रमाणप्रवृत्तेः पूर्वाङ्गत्वादिति भावः ।

यच्चोक्तं ज्ञानगतार्थसारूप्यस्यैव ज्ञानालम्बनत्वोपपत्तेर्बहिरर्थाभाव इति, तत्राह -

न चेति ।

यत्तु गौरवमुक्तम् , तन्न दूषणम् , प्रामाणिकत्वादित्याह -

बहिरिति ।

यत एव ज्ञानार्थयोर्भेदः सर्वलोके साक्ष्यनुभवसिद्धः, अत एव सहोपलम्भनियमोऽपि नाभेदसाधक इत्याह -

अत एवेति ।

यथा चाक्षुषद्रव्यरूपस्यालोकोपलम्भनियतोपलब्धिकत्वेऽपि नालोकाभेदः, तथार्थस्य न ज्ञानाभेदः, भेदेऽपि ग्राह्यग्राहकभावेन नियमेपपत्तेः । न च ज्ञानस्य क्षणिकत्वात्स्वभिन्नग्राह्यसम्बन्धायोगः, स्थायित्वादिति भावः ।

विज्ञानमनेकार्थेभ्यो भिन्नम् , एकत्वात् , गोत्ववदिति सत्प्रतिपक्षमाह -

अपि चेति ।

न च हेत्वसिद्धिः, ज्ञानं ज्ञानमित्येकाकारप्रतीतेर्ज्ञानैक्यनिश्चयात् ।

न च सा जातिविषया, व्यक्तिभेदानिश्चयादित्याह -

न विशेष्यस्येति ।

घटादेश्चैतन्याद्भेदमुक्त्वा वृत्तिज्ञानाद्भेदमाह -

तथेति ।

घटो द्वाभ्यां भिन्नः एकत्वात् , क्षीरवदित्यर्थः ।

ज्ञानभिन्नार्थानङ्गीकारे स्वशास्त्रव्यवहारलोपं बाधकमाह -

अपि चेति ।

क्रमिकयोः स्वप्रकाशयोः क्षणिकज्ञानयोर्मिथो ग्राह्यग्राहकत्वमयुक्तमनभ्युपगतं च । तथा च तयोर्भेदप्रतिज्ञा न युक्ता, धर्मिप्रतियोगिनोर्मिथः परेण चाग्रहेण भेदग्रहायोगात् । तथा च तयोर्भेदग्राहकः स्थाय्यात्मा तद्भिन्न एवैष्टव्यः । एवं पक्षसाध्यहेतुदृष्टान्तभेदाभावे इदं क्षणिकमसदिति प्रतिज्ञा न युक्ता । सर्वतो व्यावृत्तं व्यक्तिमात्रत्वं स्वलक्षणम् , अनेकानुगतं सामान्यमतद्व्यावृत्तिरूपमिति प्रतिज्ञा न युक्ता, सर्वानेकार्थानां ज्ञानमात्रत्वे मिथः परेण वा दुर्ज्ञानत्वातुत्तरनीलज्ञानं वास्यं पूर्वनीलज्ञानं वासकमिति प्रतिज्ञा न युक्ता, तयोर्भिन्नस्य ज्ञातुरभावात् । किञ्चाविद्योपप्लवोऽविद्यासंसर्गः, तेन नीलमिति सद्धर्मः, नरविषाणमित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः, सतो विज्ञानस्यासतो नरविषाणस्य वामूर्तत्वादिप्रतिज्ञा दुर्लभा, अनेकार्थज्ञानसाध्यत्वात् । अज्ञानेनास्य बन्धो ज्ञानेनास्य मोक्ष इति च प्रतिज्ञा बह्वर्थज्ञानसाध्या । आदिपदेन सामान्यत इष्टं ग्राह्यमनिष्टं त्याज्यमिति शिष्यहितेपदेशोऽनेकज्ञानसाध्यो गृहीतः । तस्मात्प्रतिज्ञादिव्यवहाराय ग्राह्यग्राहकभेदोऽङ्गीकार्य इत्यर्थः ।

ज्ञानार्थयोभेदे युक्त्यन्तरमस्तीत्याह -

किञ्चान्यदिति ।

ज्ञानवदर्थस्याप्यनुभवाविशेषात्स्वीकारो युक्त इत्यर्थः ।

स्वविषयत्वाद्विज्ञानं स्वीक्रियते नार्थः परग्राह्यत्वादिति शङ्कते -

अथ विज्ञानमिति ।

विरुद्धं स्वीकृत्याविरुद्धं त्यजता बौद्धतनयेन मौढ्यं दर्शितमित्याह -

अत्यन्तेति ।

ज्ञानं स्ववेद्यमित्यङ्गीकृत्य मौर्ख्यमापादितम् , वस्तुतः स्ववेद्यत्वमयुक्तमित्याह -

न चेति ।

कर्तरि क्रियां प्रति गुणभूते प्रधानत्वाख्यकर्मत्वायोगात्स्वकर्तृकवेदनकर्मत्वमसदित्यर्थः । न च स्वविषयत्वमात्रं स्ववेद्यत्वमिति वाच्यम् , अभेदे विषयविषयित्वस्याप्यसम्भवादिति भावः ।

ज्ञानस्य स्ववेद्यत्वाभावे दोषद्वयं स्यादिति शङ्कते -

नन्विति ।

अनवस्था च साम्यं चेति दोषद्वयं परिहरति -

तदुभयमपीति ।

अनित्यज्ञानस्य जन्मादिमत्वेन घटवज्जडस्य स्वेन स्वीयजन्मादिग्रहायोगादस्ति ग्राहकाकाङ्क्षा, साक्षिणस्तु सत्तायां स्फूर्तौ च निरपेक्षत्वान्नानवस्था । नापि साम्यम् । चिज्जडत्ववैषम्यादित्यर्थः ।

साक्षी क्वेत्यत आह -

स्वयंसिद्धस्येति ।

निरपेक्षस्य साक्षिणोऽसत्त्वे क्षणिकविज्ञानभेदासिद्धेः सोऽङ्गीकार्य इत्यर्थः ।

अनित्यज्ञानस्वरूपसाधकत्वाच्च साक्षी स्वीकार्य इत्याह -

किञ्चेति ।

विज्ञानं ज्ञानान्तरानपेक्षमिति ब्रुवता तस्याप्रामाणिकत्वमुक्तं स्यात् , स्वयं प्रथत इति ब्रुवता ज्ञातृशून्यत्वं चोक्तं स्यात् , तथा च ज्ञातृज्ञानाविषयत्वाच्छिलास्थप्रदीपवदसदेव विज्ञानं स्यात् । अतस्तत्साक्ष्येष्टव्य इत्यर्थः ।

विज्ञानस्य स्वान्यज्ञातृशून्यत्वमिष्टमेव त्वयापाद्यते न चासत्त्वापत्तिः ज्ञात्रभावादिति वाच्यम् , स्वस्यैव ज्ञातृत्वादिति शाक्यः शङ्कते -

बाढमिति ।

अभेदे ज्ञातृज्ञेयत्वायोगाज्ज्ञात्रन्तरमावश्यकमिति परिहरति -

नेति ।

विमतं विज्ञानं स्वातिरिक्तवेद्यम् , वेद्यत्वात् , देहवदित्यर्थः ।

अतिरिक्तः साक्षी किमन्यवेद्यः स्ववेद्यो वा । आद्येऽनवस्था । द्वितीये विज्ञानवाद एव भङ्ग्यन्तरेणोक्तः स्यादितिशङ्कते -

साक्षिण इति ।

त्वया विज्ञानं जन्मविनाशयुक्तमुच्यते । अतः कार्यस्य जडत्वनियमात्स्वातिरिक्तवेद्यत्वमस्माभिः साधितम् , कूटस्थचिदात्मनो ग्राहकानपेक्षत्वान्नानवस्थेति चोक्तमतो महद्वैलक्षण्यमावयोरेति परिहरति -

न । विज्ञानस्येति ॥२८॥