ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
वैधर्म्याच्च न स्वप्नादिवत् ॥ २९ ॥
यदुक्तं बाह्यार्थापलापिना — स्वप्नादिप्रत्ययवज्जागरितगोचरा अपि स्तम्भादिप्रत्यया विनैव बाह्येनार्थेन भवेयुः, प्रत्ययत्वाविशेषादिति, तत्प्रतिवक्तव्यम् । अत्रोच्यते — न स्वप्नादिप्रत्ययवज्जाग्रत्प्रत्यया भवितुमर्हन्ति । कस्मात् ? वैधर्म्यात् — वैधर्म्यं हि भवति स्वप्नजागरितयोः । किं पुनर्वैधर्म्यम् ? बाधाबाधाविति ब्रूमः — बाध्यते हि स्वप्नोपलब्धं वस्तु प्रतिबुद्धस्य — मिथ्या मयोपलब्धो महाजनसमागम इति, न ह्यस्ति मम महाजनसमागमः, निद्राग्लानं तु मे मनो बभूव, तेनैषा भ्रान्तिरुद्बभूवेति । एवं मायादिष्वपि भवति यथायथं बाधः । नैवं जागरितोपलब्धं वस्तु स्तम्भादिकं कस्याञ्चिदप्यवस्थायां बाध्यते । अपि च स्मृतिरेषा, यत्स्वप्नदर्शनम् । उपलब्धिस्तु जागरितदर्शनम् । स्मृत्युपलब्ध्योश्च प्रत्यक्षमन्तरं स्वयमनुभूयते अर्थविप्रयोगसम्प्रयोगात्मकम् — इष्टं पुत्रं स्मरामि, नोपलभे, उपलब्धुमिच्छामीति । तत्रैवं सति न शक्यते वक्तुम् — मिथ्या जागरितोपलब्धिः, उपलब्धित्वात् , स्वप्नोपलब्धिवदिति — उभयोरन्तरं स्वयमनुभवता । न च स्वानुभवापलापः प्राज्ञमानिभिर्युक्तः कर्तुम् । अपि च अनुभवविरोधप्रसङ्गाज्जागरितप्रत्ययानां स्वतो निरालम्बनतां वक्तुमशक्नुवता स्वप्नप्रत्ययसाधर्म्याद्वक्तुमिष्यते । न च यो यस्य स्वतो धर्मो न सम्भवति सोऽन्यस्य साधर्म्यात्तस्य सम्भविष्यति । न ह्यग्निरुष्णोऽनुभूयमान उदकसाधर्म्याच्छीतो भविष्यति । दर्शितं तु वैधर्म्यं स्वप्नजागरितयोः ॥ २९ ॥

एवं वेद्यविज्ञानवदर्थस्याप्युपलब्धेर्न बाह्यार्थाभाव इत्युक्तम् । सम्प्रति जाग्रद्विज्ञानं स्वप्नादिविज्ञानवन्न बाह्यालम्बनमित्यनुमानं दूषयति -

वैधर्म्याच्चेति ।

किमत्र निर्विषयत्वं साध्यमुत पारमार्थिकविषयशून्यत्वम् , अथवा व्यावहारिकविषयशून्यत्वम् । नाद्यः, स्वप्नादिविभ्रमाणामपि मिथ्यार्थालम्बनत्वेन दृष्टान्ते साध्यवैकल्यात् । न द्वितीयः, सिद्धसाधनादिति सूत्रस्थचकारार्थः ।

तृतीये तु व्यवहारदशायां बाधितार्थग्राहित्वमुपाधिरित्याह -

बाध्यते हीत्यादिना ।

निद्राग्लानमिति ।

करणदोषोक्तिः ।

साधनव्यापकत्वनिरासायाह -

न चैवमिति ।

किञ्च प्रमाणजानुभव उपलब्धिः पक्षोऽप्रमाणजं स्वप्नज्ञानं दृष्टान्त इति वैधर्म्यान्तरम् ।

परमतेन स्वप्नस्य स्मृतित्वमङ्गीकृत्याह -

अपि चेति ।

स्मृतिप्रत्यक्षोपलब्ध्योर्वैधर्म्यान्तरमाह -

अर्थविप्रयोरेति ।

असम्बन्धश्चावर्तमानश्च स्मृतेरर्थो विषय इति निरालम्बनत्वमप्यस्याः कदाचिद्भवेत् , न सम्प्रयुक्तवर्तमानार्थमात्रग्राहिण्या उपलब्धेरिति भावः ।

पूर्वोक्तप्रमाणाप्रमाणजत्ववैधर्म्योक्तिफलमाह -

तत्रैवंसतीति ।

वैधर्म्ये सतीत्यर्थः । अप्रमाणजत्वोपाधेर्निरालम्बनत्वानुमानं न युक्तमिति भावः ।

वैधर्म्यासिद्धिं निरस्यति -

न चेति ।

बाधमप्याह -

अपि चेति ।

वस्तुतो घटाद्यनुभवस्य निरालम्बनत्वं धर्मो यदि स्यात्तदा किं दृष्टान्ताग्रहेण, प्रत्यक्षतोऽपि वक्तुं शक्यत्वात् । न हि वह्नेरौष्ण्यं दृष्टान्तेन वक्तव्यम् । यदि न वस्तुतो धर्मोऽस्ति तदा किं दृष्टान्तेन, बाधितस्य दृष्टान्तसहस्रेणापि दुःसाध्यत्वात् । अतः स्वतो निरालम्बनत्वोक्तौ सालम्बनत्वानुभवबाधभिया त्वयानुमातुमारब्धं तथापि बाधो न मुञ्चतीत्यर्थः ।

उक्तोपाधिरपि न विस्मर्तव्य इत्याह -

दर्शितं त्विति ॥२९॥