ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
नैकस्मिन्नसम्भवात् ॥ ३३ ॥
अत्राचक्ष्महे — नायमभ्युपगमो युक्त इति । कुतः ? एकस्मिन्नसम्भवात् । न ह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः सम्भवति, शीतोष्णवत् । य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति, ते तथैव वा स्युः, नैव वा तथा स्युः । इतरथा हि, तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात् । नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति । नेति ब्रूमः — निरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् ‘स्यादस्ति स्यान्नास्ति’ इत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् । एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता, स्याच्च पक्षे नास्तितेति । एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात् ? कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते, नान्यथा । अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात् । तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्या ‘अस्ति वा नास्ति वा’ इति विकल्प्यमाना, स्यात्तावदेकस्मिन्पक्षे, पक्षान्तरे तु न स्यात् — इत्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात् । न चैषां पदार्थानामवक्तव्यत्वं सम्भवति । अवक्तव्याश्चेन्नोच्येरन् । उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् । उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च । तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा — एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वा — इति प्रलपन् मत्तोन्मत्तपक्षस्यैव स्यात् , न प्रत्ययितव्यपक्षस्य । स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावः, तथा पक्षे नित्यता पक्षे चानित्यता — इत्यनवधारणायां प्रवृत्त्यनुपपत्तिः । अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः । एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसम्भवात् , सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासम्भवात् , असत्त्वे चैवं सत्त्वस्यासम्भवात् , असङ्गतमिदमार्हतं मतम् । एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः । यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः सङ्घाताः सम्भवन्तीति कल्पयन्ति, तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते ॥ ३३ ॥

एवमनेकरूपत्वे वस्तुनि प्राप्तित्यागादिव्यवहारः सम्भवति, एकरूपत्वे सर्वं सर्वत्र सर्वदास्त्येवेति व्यवहारविलोपापत्तिः स्यात् , तस्मादनैकान्तं सर्वमित्येकरूपब्रह्मवादबाध इति प्राप्ते सिद्धान्तयति -

अत्रेति ।

यदस्ति तत्सर्वत्र सर्वदास्त्येव यथा ब्रह्मात्मा । न चैवं तत्प्राप्तये यत्नो न स्यादिति वाच्यम् , अप्राप्तिभ्रान्त्या यत्नसम्भवात् । यन्नास्ति तन्नास्त्येव, यथा शशविषाणादि । प्रपञ्चस्तूभयविलक्षण एवेत्येकान्तवाद एव युक्तो नानैकान्तवादः । तथा हि किं येनाकारेण वस्तुनः सत्त्वं तेनैवाकारेणासत्त्वमुताकारान्तरेण । द्वितीये वस्तुन आकारान्तरमेवासदिति वस्तुनः सदैकरूपत्वमेव । न हि दूरस्थग्रामस्य प्राप्तेरसत्त्वे ग्रामोऽप्यसन् भवति, प्राप्यासत्त्वे प्राप्तियत्नानुपपत्तेः । अतो यथाव्यवहारं प्रपञ्चस्यैकरूपत्वमास्थेयम् ।

नाद्य इत्याह -

नायमिति ।

ननु विमतमनैकात्मकम् , वस्तुत्वात् , नारसिंहवदिति चेत् । न । घट इदानीमस्त्येवेत्यनुभवबाधात् । किञ्च जीवादिपदार्थानां सप्तत्वं जीवत्वादिरूपं चास्त्येव नास्त्येवेति च नियतमुतानियतम् । आद्ये व्यभिचार इत्याह -

य इति ।

द्वितीये पदार्थनिश्चयो न स्यादित्याह -

इतरथेति ।

अनैकान्तं सर्वमित्येव निश्चय इति शङ्कते -

नन्विति ।

तस्य निश्चयरूपत्वं नियतमनियतं वा । आद्ये वस्तुत्वस्य तस्मिन्नेवैकरूपे निश्चये व्यभिचारः । द्वितीये तस्य संशयत्वं स्यादित्याह -

नेति ब्रूम इति ।

प्रमायामुक्तन्यायं प्रमात्रादावतिदिशति -

एवमिति ।

निर्धारणं फलं यस्य प्रमाणादेस्तस्येत्यर्थः ।

इत्येवं सर्वत्रानिर्धारणे सत्युपदेशो निष्कम्पप्रवृत्तिश्च न स्यादित्याह -

एवं सतीति ।

अनैकान्तवादे अस्तिकायपञ्चत्वमपि न स्यादित्याह -

तथा पञ्चानामिति ।

यदुक्तमवक्तव्यत्वं तत्किं केनापि शब्देनावाच्यत्वमुत सकृदनेकशब्दावाच्यत्वम् । नाद्यः, व्याघातादित्याह -

न चैषामिति ।

उच्यन्ते च । अवक्तव्यादिपदैरिति शेषः । न द्वितीयः, सकृदेकवक्तृमुखजानेकशब्दानामप्रसिद्धेर्निषेधायोगात् , शेषस्यापि मुखभेदात् । न चार्थस्य युगपद्विरुद्धधर्मवाञ्छायां वक्तुर्मूकत्वमात्रमवक्तव्यपदेन विवक्षितमिति वाच्यम् , तादृशवाञ्छाया एवानुत्पत्तेरिति ।

किञ्च विरुद्धानेकप्रलापित्वादर्हन्ननाप्त इत्याह -

उच्यमानाश्चेत्यादिना ।

इति च प्रलपन्नित्यन्वयः । अर्हन्निति शेषः । अनाप्तपक्षस्यैवान्तर्गतः स्यान्नाप्तपक्षस्येत्यर्थः ।

इतश्चासङ्गतोऽनैकान्तवाद इत्याह -

स्वर्गेति ।

किञ्चानादिसिद्धोऽर्हन्मुनिः, अन्ये तु हेत्वनुष्ठानान्मुच्यन्ते, अननुष्ठानाद्बध्यन्त इत्यार्हततन्त्रावधृतस्वभावानां त्रिविधजीवानां त्रैविध्यनियमोऽपि न स्यादित्याह -

अनादीति ।

प्रपञ्चितं सूत्रार्थं निगमयति -

एवमिति ।

एतेनेति ।

सत्त्वासत्त्वयोरेकत्र निरासेनेत्यर्थः । परमाणुसङ्घाताः पृथिव्यादय इति ।

दिगम्बरसिद्धान्तः किमिति सूत्रकृतोपेक्षितः, तत्राह -

यत्त्विति ॥३३॥