ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
न च पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यते । कुतः ? विकारादिदोषप्रसङ्गात् — अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य च जीवस्य विक्रियावत्त्वं तावदपरिहार्यम् । विक्रियावत्त्वे च चर्मादिवदनित्यत्वं प्रसज्येत । ततश्च बन्धमोक्षाभ्युपगमो बाध्येत — कर्माष्टकपरिवेष्टितस्य जीवस्य अलाबूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीति । किञ्चान्यत् — आगच्छतामपगच्छतां च अवयवानामागमापायधर्मवत्त्वादेव अनात्मत्वं शरीरादिवत् । ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् । न च स निरूपयितुं शक्यते — अयमसाविति । किञ्चान्यत् — आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः, भूतेषु च निलीयेरन् , अभौतिकत्वाज्जीवस्य । नापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते, प्रमाणाभावात् । किञ्चान्यत् — अनवधृतस्वरूपश्चैवं सति आत्मा स्यात् , आगच्छतामपगच्छतां च अवयवानामनियतपरिमाणत्वात् । अत एवमादिदोषप्रसङ्गात् न पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येते । अथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायाम् , पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेन आत्मनो नित्यता स्यात् — यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्सन्ताननित्यता, तद्वद्विसिचामपि — इत्याशङ्क्य, अनेन सूत्रेणोत्तरमुच्यते — सन्तानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति ॥ ३५ ॥

सूत्रेण परिहरति -

न चेति ।

आगमापायौ पर्यायः ।

किमागमापायिनामवयवानामात्मत्वमस्ति न वा । आद्ये आह -

विकारादिदोषेति ।

कोऽसौ बन्धमोक्षाभ्युपगम इत्यत आह -

कर्माष्टकेति ।

व्याख्यातमेतत् ।

आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति -

किञ्चेति ।

अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः ।

यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह -

किञ्चेति ।

सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः ।

किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तोऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह -

किञ्चेति ।

अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापायेऽपि सद्यः शरीरस्याचेतनत्वम् , गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति -

अत इति ।

सूत्रस्यार्थान्तरमाह -

अथवेति ।

स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्सन्तानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः ।

पर्यायेणेत्यस्य व्याख्या -

स्रोत इति ।

देहभेदेन परिमाणस्यात्मनश्चानवस्थानेऽपि नाशेऽपि । स्रोतः प्रवाहः ।

तदात्मकस्यात्मव्यक्तिसन्तानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह -

यथेति ।

सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः । पर्यायात्सन्तानादप्यात्मनित्यत्वस्याविरोध इति न च । कुतः । विकारादिभ्यः । सन्तानस्यावस्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात्सन्तानात्मपक्षोऽनुपपन्न इति सूत्रार्थः ॥३५॥