ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥
पर्यायेणाप्यवयवोपगमापगमाभ्यामेतद्देहपरिमाणत्वं जीवस्याविरोधेनोपपादयितुं शक्यतेकुतः ? विकारादिदोषप्रसङ्गात्अवयवोपगमापगमाभ्यां ह्यनिशमापूर्यमाणस्यापक्षीयमाणस्य जीवस्य विक्रियावत्त्वं तावदपरिहार्यम्विक्रियावत्त्वे चर्मादिवदनित्यत्वं प्रसज्येतततश्च बन्धमोक्षाभ्युपगमो बाध्येतकर्माष्टकपरिवेष्टितस्य जीवस्य अलाबूवत्संसारसागरे निमग्नस्य बन्धनोच्छेदादूर्ध्वगामित्वं भवतीतिकिञ्चान्यत्आगच्छतामपगच्छतां अवयवानामागमापायधर्मवत्त्वादेव अनात्मत्वं शरीरादिवत्ततश्चावस्थितः कश्चिदवयव आत्मेति स्यात् निरूपयितुं शक्यतेअयमसावितिकिञ्चान्यत्आगच्छन्तश्चैते जीवावयवाः कुतः प्रादुर्भवन्ति, अपगच्छन्तश्च क्व वा लीयन्त इति वक्तव्यम् हि भूतेभ्यः प्रादुर्भवेयुः, भूतेषु निलीयेरन् , अभौतिकत्वाज्जीवस्यनापि कश्चिदन्यः साधारणोऽसाधारणो वा जीवानामवयवाधारो निरूप्यते, प्रमाणाभावात्किञ्चान्यत्अनवधृतस्वरूपश्चैवं सति आत्मा स्यात् , आगच्छतामपगच्छतां अवयवानामनियतपरिमाणत्वात्अत एवमादिदोषप्रसङ्गात् पर्यायेणाप्यवयवोपगमापगमावात्मन आश्रयितुं शक्येतेअथवा पूर्वेण सूत्रेण शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिपत्तावकार्त्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायाम् , पुनः पर्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यतान्यायेन आत्मनो नित्यता स्यात्यथा रक्तपटानां विज्ञानानवस्थानेऽपि तत्सन्ताननित्यता, तद्वद्विसिचामपिइत्याशङ्क्य, अनेन सूत्रेणोत्तरमुच्यतेसन्तानस्य तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विकारादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति ॥ ३५ ॥

सूत्रेण परिहरति -

न चेति ।

आगमापायौ पर्यायः ।

किमागमापायिनामवयवानामात्मत्वमस्ति न वा । आद्ये आह -

विकारादिदोषेति ।

कोऽसौ बन्धमोक्षाभ्युपगम इत्यत आह -

कर्माष्टकेति ।

व्याख्यातमेतत् ।

आद्ये कल्पे दोषान्तरं वदन् कल्पान्तरमादाय दूषयति -

किञ्चेति ।

अवशिष्टकूटस्थावयवस्य दुर्ज्ञानत्वादात्मज्ञानाभावान्न मुक्तिरित्यर्थः ।

यथा दीपावयवनामाकारस्तेजस्तथात्मावयवनामाकारकारणाभावान्नागमापायौ युक्तावित्याह -

किञ्चेति ।

सर्वजीवसाधारणः प्रतिजीवमसाधारणो वेत्यर्थः ।

किञ्चात्मन आगमापायिशीलावयवत्वे सति कियन्त आयान्त्यवयवाः कियन्तोऽपयन्तीत्यज्ञानादात्मनिश्चयाभावादनिर्मोक्षः स्यादित्याह -

किञ्चेति ।

अपि चावयवारब्धावयवित्वे जीवस्यानित्यत्वम् , अवयवसमूहत्वे चासत्त्वम् , आत्मत्वस्य यावदवयववृत्तित्वे यत्किञ्चिदवयवापायेऽपि सद्यः शरीरस्याचेतनत्वम् , गोत्ववत्प्रत्येकं समाप्तावेकस्मिञ्छरीर आत्मनानात्वं स्यादतो न देहपरिमाणत्वसावयवत्वे आत्मन इत्युपसंहरति -

अत इति ।

सूत्रस्यार्थान्तरमाह -

अथवेति ।

स्थूलसूक्ष्मशरीरप्राप्तावकार्त्स्न्योक्तिद्वारेणात्मानित्यतायामुक्तायां सुगतवत्सन्तानरूपेणात्मनित्यतामाशङ्क्यानेनोत्तरमुच्यत इत्यन्वयः ।

पर्यायेणेत्यस्य व्याख्या -

स्रोत इति ।

देहभेदेन परिमाणस्यात्मनश्चानवस्थानेऽपि नाशेऽपि । स्रोतः प्रवाहः ।

तदात्मकस्यात्मव्यक्तिसन्तानस्य नित्यतयात्मनित्यता स्यादित्यत्र दृष्टान्तमाह -

यथेति ।

सिग्वस्त्रं विगतं येभ्यस्ते विसिचो दिगम्बरास्तेषामित्यर्थः । पर्यायात्सन्तानादप्यात्मनित्यत्वस्याविरोध इति न च । कुतः । विकारादिभ्यः । सन्तानस्यावस्तुनः आत्मत्वे शून्यवादः, सन्तानस्य वस्तुत्वे सन्तान्यतिरेके च कूटस्थात्मवादः, अनतिरेके जन्मादिविकारो विनाशो मुक्त्यभाव इत्युक्तदोषप्रसङ्गात्सन्तानात्मपक्षोऽनुपपन्न इति सूत्रार्थः ॥३५॥