ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
पत्युरसामञ्जस्यात् ॥ ३७ ॥
इदानीं केवलाधिष्ठात्रीश्वरकारणवादः प्रतिषिध्यतेतत्कथमवगम्यते ? प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’ (ब्र. सू. १ । ४ । २३) अभिध्योपदेशाच्च’ (ब्र. सू. १ । ४ । २४) इत्यत्र प्रकृतिभावेन अधिष्ठातृभावेन उभयस्वभावस्येश्वरस्य स्वयमेव आचार्येण प्रतिष्ठापितत्वात्यदि पुनरविशेषेणेश्वरकारणवादमात्रमिह प्रतिषिध्येत, पूर्वोत्तरविरोधाद्व्याहताभिव्याहारः सूत्रकार इत्येतदापद्येततस्मादप्रकृतिरधिष्ठाता केवलं निमित्तकारणमीश्वरःइत्येष पक्षो वेदान्तविहितब्रह्मैकत्वप्रतिपक्षत्वात् यत्नेनात्र प्रतिषिध्यतेसा चेयं वेदबाह्येश्वरकल्पना अनेकप्रकाराकेचित्तावत्साङ्ख्ययोगव्यपाश्रयाः कल्पयन्तिप्रधानपुरुषयोरधिष्ठाता केवलं निमित्तकारणमीश्वरः; इतरेतरविलक्षणाः प्रधानपुरुषेश्वरा इतिमाहेश्वरास्तु मन्यन्तेकार्यकारणयोगविधिदुःखान्ताः पञ्च पदार्थाः पशुपतिनेश्वरेण पशुपाशविमोक्षणायोपदिष्टाः; पशुपतिरीश्वरो निमित्तकारणमितितथा वैशेषिकादयोऽपि केचित्कथञ्चित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वरःइति वर्णयन्ति

लुञ्चितकेशमतनिरसनानन्तरं जटाधारिशैवमतं बुद्धिस्थं निराक्रियत इति प्रसङ्गसङ्गतिमाह -

इदानीमिति ।

सामान्यत ईश्वरनिरास एवात्र किं न स्यादिति शङ्कते -

तदिति ।

स्वोक्तिविरोधान्मैवमित्याह -

प्रकृतिश्चेत्यादिना ।

प्रतिष्ठापितत्वात्केवलनिमित्तेश्वरप्रतिषेधोऽवगम्यत इत्यन्वयः । व्याहतो विरुद्धोऽभिव्याहार उक्तिर्यस्य स तथा ।

अद्वितीयब्रह्मप्रकृतिकं जगदिति वदतो वेदान्तसमन्वयस्य कर्तैवेश्वरो न प्रकृतिरिति शैवादिमतेन विरोधोऽस्ति न वेति सन्देहे तन्मतस्य मानमूलत्वाद्विरोधे सति वेदान्तोक्ताद्वयब्रह्मासिद्धिरिति फलमभिप्रेत्य सत्त्वासत्त्वयोरेकत्रासम्भववत्कर्तृत्वोपादानत्वयोरप्येकत्रासम्भवात्कर्तैवेश्वर इति पूर्वपक्षं कुर्वन्नवान्तरमतभेदमाह -

सा चेति ।

सेश्वराः साङ्ख्याः साङ्ख्यशब्दार्थः । चत्वारो माहेश्वराः शैवाः पाशुपताः कारुणिकसिद्धान्तिनः कापालिकाश्चेति । सर्वोऽप्यमी महेश्वरप्रोक्तागमानुगामित्वान्माहेश्वरा उच्यन्ते । कार्यं महदादिकम् , कारणं प्रधानमीश्वरश्च, योगः समाधिः, विधिस्त्रिषवणस्नानादिः , दुःखान्तो मोक्ष इति पञ्च पदार्थाः । पशवो जीवास्तेषां पाशो बन्धस्तन्नाशायेत्यर्थः ।

पाशुपतागमप्रमाण्यात्पशुपतिर्निमित्तमेवेति मतमुक्त्वानुमानिकेश्वरमतमाह -

तथेति ।

विमतं सकर्तृकम् , कार्यत्वात् , घटवदिति वैशेषिकाः कर्तारमीश्वरं साधयन्ति । कर्मफलं सपरिकराभिज्ञदातृकम् , कालान्तरभाविफलत्वात् , सेवाफलवदिति गौतमा दिगम्बराश्च ।

ज्ञानैश्वर्योत्कर्षः क्वचिद्विश्रान्तः, सातिशयत्वात् , परिमाणवदिति साङ्ख्यसौगतपातञ्जला इति मत्वोक्तम् -

केचित्कथञ्चिदिति ।