ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य; हि परिकल्प्यमानः, कुम्भकार इव मृदादीनि, प्रधानादीन्यधिष्ठाय प्रवर्तयेत्; चैवमुपपद्यते ह्यप्रत्यक्षं रूपादिहीनं प्रधानमीश्वरस्याधिष्ठेयं सम्भवति, मृदादिवैलक्षण्यात् ॥ ३९ ॥

ईश्वरस्य प्रधानादिप्रेरणानुपपत्तेश्चासामञ्जस्यमित्याह सूत्रकारः -

अधिष्ठानेति ।

प्रधानादिकं चेतनस्यानधिष्ठेयम् , अप्रत्यक्षत्वात् , ईश्वरवत् , व्यतिरेकेण मृगादिवच्चेत्यर्थः ॥३९॥