ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
करणवच्चेन्न भोगादिभ्यः ॥ ४० ॥
स्यादेतत्यथा करणग्रामं चक्षुरादिकमप्रत्यक्षं रूपादिहीनं पुरुषोऽधितिष्ठति, एवं प्रधानमपीश्वरोऽधिष्ठास्यतीतितथापि नोपपद्यतेभोगादिदर्शनाद्धि करणग्रामस्य अधिष्ठितत्वं गम्यते चात्र भोगादयो दृश्यन्तेकरणग्रामसाम्ये अभ्युपगम्यमाने संसारिणामिव ईश्वरस्यापि भोगादयः प्रसज्येरन्

चक्षुरादौ व्यभिचारमाशङ्क्य निषेधति -

करणवदिति ।

रूपमुद्भूतं नास्तीत्यप्रत्यक्षत्वं स्फुटयति -

रूपेति ।

स्वभोगाहेतुत्वे सतीति विशेषणान्न व्यभिचार इत्याह -

तथापीति ।

भोगः सुखदुःखानुभवः । आदिपदाद्विषयानुभवग्रहः । न च यद्येनाधिष्ठेयं तत्तदीयभोगहेतुत्वे सति प्रत्यक्षमिति व्यतिरेकव्याप्तौ करणेषु व्यभिचारतादवस्थ्यमिति वाच्यम् , भोगाहेतुत्वविशिष्टाप्रत्यक्षत्वस्य हेतुत्वात् , करणेषु च विशेषणाभावेन विशिष्टस्य हेतोरभावात् । न च विशेष्यवैयर्थ्यम् , परार्थपाचकाधिष्ठेयकाष्ठादौ व्यभिचारात् । न च प्रधानादेरीश्वरप्रत्यक्षत्वाद्विशेष्यासिद्धिः, अतीन्द्रियत्वरूपाप्रत्यक्षत्वस्य सत्त्वादित्यभिप्रायः । जीवे करणकृता भोगदयो दृश्यन्ते, ईश्वरे तु प्रधानकृतास्ते न दृश्यन्त इत्यक्षरार्थः ।

विपक्षे दोषं वदन्नप्रयोजकत्वं हेतोर्निरस्यति -

करणेति ।

प्रधानादेः प्रेर्यत्वाङ्गीकारे प्रेरकभोगहेतुत्वं स्यात् । अतीन्द्रियस्य प्रेर्यस्य भोगहेतुत्वनियमादित्यर्थः ।