ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तवत्त्वमसर्वज्ञता वा ॥ ४१ ॥
इतश्चानुपपत्तिस्तार्किकपरिकल्पितस्येश्वरस्य हि सर्वज्ञस्तैरभ्युपगम्यतेऽनन्तश्च; अनन्तं प्रधानम् , अनन्ताश्च पुरुषा मिथो भिन्ना अभ्युपगम्यन्तेतत्र सर्वज्ञेनेश्वरेण प्रधानस्य पुरुषाणामात्मनश्चेयत्ता परिच्छिद्येत वा, वा परिच्छिद्येत ? उभयथापि दोषोऽनुषक्त एवकथम् ? पूर्वस्मिंस्तावद्विकल्पे, इयत्तापरिच्छिन्नत्वात्प्रधानपुरुषेश्वराणामन्तवत्त्वमवश्यंभावि, एवं लोके दृष्टत्वात्; यद्धि लोके इयत्तापरिच्छिन्नं वस्तु घटादि, तदन्तवद्दृष्टम्तथा प्रधानपुरुषेश्वरत्रयमपीयत्तापरिच्छिन्नत्वादन्तवत्स्यात्संख्यापरिमाणं तावत्प्रधानपुरुषेश्वरत्रयरूपेण परिच्छिन्नम्स्वरूपपरिमाणमपि तद्गतमीश्वरेण परिच्छिद्येेतेतपुरुषगता महासंख्याततश्चेयत्तापरिच्छिन्नानां मध्ये ये संसारान्मुच्यन्ते, तेषां संसारोऽन्तवान् , संसारित्वं तेषामन्तवत्एवमितरेष्वपि क्रमेण मुच्यमानेषु संसारस्य संसारिणां अन्तवत्त्वं स्यात्; प्रधानं सविकारं पुरुषार्थमीश्वरस्य अधिष्ठेयं संसारित्वेनाभिमतम्तच्छून्यतायाम् ईश्वरः किमधितिष्ठेत् ? किंविषये वा सर्वज्ञतेश्वरते स्याताम् ? प्रधानपुरुषेश्वराणाम् चैवमन्तवत्त्वे सति आदिमत्त्वप्रसङ्गः; आद्यन्तवत्त्वे शून्यवादप्रसङ्गःअथ मा भूदेष दोष इत्युत्तरो विकल्पोऽभ्युपगम्येत प्रधानस्य पुरुषाणामात्मनश्च इयत्ता ईश्वरेण परिच्छिद्यत इतितत ईश्वरस्य सर्वज्ञत्वाभ्युपगमहानिरपरो दोषः प्रसज्येततस्मादप्यसङ्गतस्तार्किकपरिगृहीत ईश्वरकारणवादः ॥ ४१ ॥

एवमीश्वरस्य शुष्कतर्केण कर्तृत्वनिर्णयो नेत्युपपाद्य नित्यत्वसर्वज्ञत्वनिर्णयोऽपि न सम्भवतीत्याह सूत्रकारः -

अन्तवत्वमिति ।

प्रधानपुरुषेश्वरत्रयमनित्यम् , इयत्तापरिच्छिन्नत्वात्घटवदित्याह -

पूर्वस्मिन्निति ।

सङ्ख्या वा परिमाणं वेयत्ता । तथा च निश्चितसङ्ख्यत्वान्निश्चितपरिमाणत्वाच्चेति हेतुद्वयम् । यद्यपि सङ्ख्यावत्वमात्रं हेतुः सम्भवति तथापि सर्वज्ञनिश्चयेन हेत्वसिद्धिनिरासं द्योतयितुं निश्चितपदम् ।

तत्राद्यहेतोरसिद्धिर्नास्तीत्याह -

सङ्ख्यापरिमाणमिति ।

सङ्ख्यास्वरूपमित्यर्थः ।

द्वितीयहेतुं साधयति -

स्वरूपेति ।

प्रधानादयो निश्चितपरिमाणाः, वस्तुतो भिन्नत्वात् , घटवदित्यर्थः ।

ननु प्रधानपुरुषेश्वरास्त्रय इति ज्ञातेऽपि जीवानामानन्त्यात्कथं सङ्ख्यानिश्चयः, तत्राह -

पुरुषेति ।

जीवसङ्ख्यापीश्वरेण निश्चीयते । अनिश्चये सर्वज्ञत्वायोगादित्यर्थः ।

हेतुसिद्धेः फलमाह -

ततश्चेति ।

माषराशिवत्केषाञ्चिज्जीवानां सङ्घस्तद्बन्धश्च नश्येदित्येवं सर्वमुक्तेरिदानीं शून्यं जगत्स्यादित्यर्थः । नित्यस्यानवशेषादिति भावः । ननु ईश्वरः शिष्यतामिति चेत् । न । तस्यापि भिन्नित्वेनान्तवत्त्वात् ।

किञ्चेशितव्याभावादीश्वराभावः स्यादित्याह -

प्रधानमिति ।

दोषान्तरमाह -

प्रधानेति ।

इयत्तानिश्चयाभावान्न शून्यतेति द्वितीयं शङ्कते -

अथेति ।

इयत्ता नास्ति न निश्चीयते चेत्यर्थः ।

प्रदानादयः सङ्ख्यापरिमाणवन्तः, द्रव्यत्वात् , माषादिवदित्यनुमानादस्तीयत्ता, तदज्ञाने स्यादसर्वज्ञता, इयत्तायां चान्तवत्त्वमप्यक्षतमिति परिहरति -

तत इति ।

तस्मात्केवलकर्त्रीश्वरवादस्य निर्मूलत्वान्न कर्त्रुपादानाद्वयेश्वरसमन्वयविरोध इति सिद्धम् ॥४१॥