ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
न च कर्तुः करणम् ॥ ४३ ॥
इतश्चासङ्गतैषा कल्पनायस्मान्न हि लोके कर्तुर्देवदत्तादेः करणं परश्वाद्युत्पद्यमानं दृश्यतेवर्णयन्ति भागवताः कर्तुर्जीवात्सङ्कर्षणसंज्ञकात्करणं मनः प्रद्युम्नसंज्ञकमुत्पद्यते, कर्तृजाच्च तस्मादनिरुद्धसंज्ञकोऽहंकार उत्पद्यत इति चैतद्दृष्टान्तमन्तरेणाध्यवसातुं शक्नुमः चैवंभूतां श्रुतिमुपलभामहे ॥ ४३ ॥

जीवस्योत्पत्तिं निरस्य जीवान्मनस उत्पत्तिं निरस्यति -

न च कर्तुरिति ।

यस्मात्कर्तुः करणोत्पत्तिर्न दृश्यते तस्मादसङ्गता कल्पनेत्यन्वयः । सिद्धानां करणानां प्रयोक्ता कर्तेति प्रसिद्ध्यर्थो हिशब्दः ।

वर्णनं निर्मूलमित्याह -

न चेति ।

ननु लोके कश्चिच्छिल्पिवरः कुठारं निर्माय तेन वृक्षं छिनत्तीति दृष्टमिति चेत् । सत्यम् । शिल्पिनो हस्तादिकरणान्तरसत्त्वात्कुठारकर्तृत्वं युक्तम् , जीवस्य तु करणान्तरासत्त्वान्न मनसः कर्तृत्वम् । विनैव करणं कर्तृत्वे वा मनोवैयर्थ्यमिति भावः ॥४३॥