ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विज्ञानादिभावे वा तदप्रतिषेधः ॥ ४४ ॥
अथापि स्यात् — न चैते सङ्कर्षणादयो जीवादिभावेनाभिप्रेयन्ते , किं तर्हि ? ईश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते — वासुदेवा एवैते सर्वे निर्दोषा निरधिष्ठाना निरवद्याश्चेति । तस्मान्नायं यथावर्णित उत्पत्त्यसम्भवो दोषः प्राप्नोतीति । अत्रोच्यते — एवमपि, तदप्रतिषेधः उत्पत्त्यसम्भवस्याप्रतिषेधः, प्राप्नोत्येवायमुत्पत्त्यसम्भवो दोषः प्रकारान्तरेणेत्यभिप्रायः । कथम् ? यदि तावदयमभिप्रायः — परस्परभिन्ना एवैते वासुदेवादयश्चत्वार ईश्वरास्तुल्यधर्माणः, नैषामेकात्मकत्वमस्तीति; ततोऽनेकेश्वरकल्पनानर्थक्यम् , एकेनैवेश्वरेणेश्वरकार्यसिद्धेः । सिद्धान्तहानिश्च, भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् । अथायमभिप्रायः — एकस्यैव भगवत एते चत्वारो व्यूहास्तुल्यधर्माण इति, तथापि तदवस्थ एवोत्पत्त्यसम्भवः । न हि वासुदेवात्सङ्कर्षणस्योत्पत्तिः सम्भवति, सङ्कर्षणाच्च प्रद्युम्नस्य, प्रद्युम्नाच्चानिरुद्धस्य, अतिशयाभावात् । भवितव्यं हि कार्यकारणयोरतिशयेन, यथा मृद्घटयोः । न ह्यसत्यतिशये, कार्यं कारणमित्यवकल्पते । न च पञ्चरात्रसिद्धान्तिभिर्वासुदेवादिषु एकस्मिन्सर्वेषु वा ज्ञानैश्वर्यादितारतम्यकृतः कश्चिद्भेदोऽभ्युपगम्यते । वासुदेवा एव हि सर्वे व्यूहा निर्विशेषा इष्यन्ते । न चैते भगवद्व्यूहाश्चतुःसंख्यायामेवावतिष्ठेरन् , ब्रह्मादिस्तम्बपर्यन्तस्य समस्तस्यैव जगतो भगवद्व्यूहत्वावगमात् ॥ ४४ ॥

सङ्कर्षणादीनामुत्पत्त्यसम्भवेऽपि व्यूहचतुष्टयं स्यादिति सूत्रव्यावर्त्यमाशङ्कते -

अथापि स्यादिति ।

ज्ञानैश्वर्ययोः शक्तिरान्तरं सामर्थ्यम् , बलं शरीरसामर्थ्यम् , वीर्यं शौर्यम् , तेजः प्रागल्भ्यमेतैरन्विता यस्मात्सङ्कर्षणादयस्तस्मादीश्वरा एवेत्यर्थः ।

सर्वेषामीश्वरत्वे पञ्चरात्रोक्तिमाह -

वासुदेवा एवेति ।

निर्दोषा रागादिशून्याः । निरधिष्ठानाः प्रकृत्यजन्याः । निरवद्या नाशादिरहिता इत्यर्थः ।

ईश्वरत्वाज्जन्मासम्भवो गुण एवेत्याह -

तस्मादिति ।

सूत्रेण सिद्धान्तयति -

अत्रेति ।

एवमपि । चतुर्णामीश्वरत्वेन विज्ञानशक्त्यादिभावेऽपीत्यर्थः ।

प्रकारान्तरं पृच्छति -

कथमिति ।

किं चत्वारः स्वतन्त्रा भिन्ना एव उतैकस्य विकारत्वेनाभिन्नाः । आद्यमनूद्य दूषयति -

यदीत्यादिना ।

द्वितीये विकाराः प्रकृतितुल्या वा न्यूना वा । आद्यमुत्थाप्य निषेधति -

अथेत्यादिना ।

न्यूनत्वपक्षेऽपसिद्धान्तमाह -

न च पञ्चेति ।

यदि न्यूना अपि भगवतो व्यूहास्तदा चतुष्ट्वव्याघात इत्याह -

न चैत इति ॥४४॥