ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
अस्ति तु ॥ २ ॥
तुशब्दः पक्षान्तरपरिग्रहे । मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः । श्रुत्यन्तरे त्वस्ति । तैत्तिरीयका हि समामनन्ति — ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इति प्रकृत्य, ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति । ततश्च श्रुत्योर्विप्रतिषेधः — क्वचित्तेजःप्रमुखा सृष्टिः, क्वचिदाकाशप्रमुखेति । नन्वेकवाक्यता अनयोः श्रुत्योर्युक्ता । सत्यं सा युक्ता, न तु सा अवगन्तुं शक्यते । कुतः ? ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन सम्बन्धानुपपत्तेः — ‘तत्तेजोऽसृजत’ ‘तदाकाशमसृजत’ इति । ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन सम्बन्धो दृश्यते — यथा सूपं पक्त्वा ओदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि । नैवं युज्यते; प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते; तैत्तिरीयके च आकाशस्य । न च उभयोः प्रथमजत्वं सम्भवति । एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः — ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्यत्रापि — तस्मादाकाशः सम्भूतः, तस्मात्तेजः सम्भूतम् — इति सकृच्छ्रुतस्यापादानस्य सम्भवनस्य च वियत्तेजोभ्यां युगपत्सम्बन्धानुपपत्तेः, ‘वायोरग्निः’ (तै. उ. २ । १ । १) इति च पृथगाम्नानात् ॥ २ ॥

सम्प्रति पूर्वपक्षयति सूत्रकारः -

अस्ति त्विति ।

एकवाक्यत्वेन प्रामाण्यसम्भवे किमिति श्रुत्योरप्रामाण्यमिति शङ्कते -

नन्वेकवाक्यतेति ।

एकवाक्यत्वासम्भवादप्रामाण्यं युक्तमित्याह -

सत्यमित्यादिना ।

एकस्य युगपत्कार्यद्वयासम्बन्धेऽपि क्रमेण सम्बन्धसम्भवादेकवाक्यतेति मुख्यसिद्धान्ती शङ्कते -

ननु सकृदिति ।

अप्रामाण्यवादी दूषयति -

नैवमिति ।

क्रमो न युज्यते द्वयोः श्रुतप्राथम्यभङ्गापत्तेरित्यर्थः ।

एकस्माद्द्विदलबीजाद्दलद्वयवदस्तूभयं प्रथमजमित्यत आह -

न चेति ।

वायोरग्निरिति क्रमश्रुतिभङ्गादिति शेषः ।

छान्दोग्यश्रुतेस्तित्तिरिश्रुतिविरुद्धार्थत्वमुक्त्वा तित्तिरिश्रुतेस्तद्विरुद्धार्थत्वमाह -

एतेनेति ।

एतत्पदार्थमाह -

तस्मादिति ।

छान्दोग्येऽपि श्रुतं तेजसः प्राथम्यमत्र दुर्योज्यमित्यर्थः ।

किञ्च सत्पदार्थ आत्मा छान्दोग्ये तेजस उपादानं श्रूयते, अत्र तु वायुरिति नैकवाक्यतेत्याह -

वायोरिति ॥२॥