ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
गौण्यसम्भवात् ॥ ३ ॥
नास्ति वियत उत्पत्तिः, अश्रुतेरेवया त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता, सा गौणी भवितुमर्हतिकस्मात् ? असम्भवात् ह्याकाशस्योत्पत्तिः सम्भावयितुं शक्या, श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सुते हि कारणसामग्र्यसम्भवादाकाशस्योत्पत्तिं वारयन्तिसमवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यतेद्रव्यस्य चैकजातीयकमनेकं द्रव्यं समवायिकारणं भवति चाकाशस्यैकजातीयकमनेकं द्रव्यमारम्भकमस्ति; यस्मिन्समवायिकारणे सति, असमवायिकारणे तत्संयोगे, आकाश उत्पद्येततदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवतिउत्पत्तिमतां तेजःप्रभृतीनां पूर्वोत्तरकालयोर्विशेषः सम्भाव्यतेप्रागुत्पत्तेः प्रकाशादिकार्यं बभूव, पश्चाच्च भवतीतिआकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यतेकिं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् ? पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिःतस्माद्यथा लोकेआकाशं कुरु, आकाशो जातःइत्येवंजातीयको गौणः प्रयोगो भवति, यथा घटाकाशः करकाकाशः गृहाकाशःइत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवतिवेदेऽपिआरण्यानाकाशेष्वालभेरन्इतिएवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥ ३ ॥

तत्र श्रुत्योर्विरोधे सत्यध्ययनविध्युपात्तयोरप्रामाण्यायोगाद्वियदुत्पत्त्यसम्भवरूपतर्कानुगृहीतच्छान्दोग्यश्रुतिर्मुख्यार्था इतरा गौणीत्यविरोध इत्येकदेशिमतं विवृणोति -

नास्तीत्यादिना ।

आकाशो नोत्पद्यते सामग्रीशून्यत्वात् , आत्मवत् । न चाविद्याब्रह्मणोः सत्त्वाद्धेत्वसिद्धिः, विजातीयत्वेनानयोरारम्भकत्वायोगादसंयुक्तत्वाच्च । संयोग एव हि द्रव्यस्यासमवायिकारणमतः समवाय्यसमवायिनोरभावान्न हेत्वसिद्धिरित्यर्थः ।

प्रागभावशून्यत्वाच्चात्मवदाकाशो नोत्पद्यत इत्याह -

उत्पत्तिमतां चेति ।

प्रकाशश्चाक्षुषानुभवः । आदिपदात्तमोध्वंसपाकयोर्ग्रहणम् । मूर्तद्रव्याश्रयत्वं ह्यकाशस्य कार्यम् , तच्च प्रलयेऽप्यस्ति परमाण्वाश्रयत्वात् । अतो न प्रागभाव इत्यर्थः ।

प्रागभावसत्त्वं स्फुटयति -

किं हीति ।

स्थूलाश्रयोऽवकाशः सूक्ष्माश्रयच्छिद्रमण्वाश्रयः सुषिरमिति भेदः ।

किञ्चात्मवदाकाशो न जायते, विभुत्वात् , अस्पर्शद्रव्यत्वाच्चेत्याह -

पृथिव्यादीति ।

तस्मादुक्ततर्कबलाद्गौणी द्रष्टव्येत्यन्वयः ।

भेदोक्तेर्गौणत्वे वैदिकोदाहरणमाह -

वेदेऽप्यारण्यानिति ।

आकाशेष्विति भेदव्यपदेशो गौण इति सम्बन्धः ॥३॥