ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
तुशब्दोऽसम्भवाशङ्काव्यावृत्त्यर्थः खल्वाकाशोत्पत्तावसम्भवाशङ्का कर्तव्या; यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा, कटककेयूरकुण्डलादि वा, सूचीनाराचनिस्त्रिंशादि वा, तावानेव विभागो लोके लक्ष्यतेनत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यतेविभागश्चाकाशस्य पृथिव्यादिभ्योऽवगम्यतेतस्मात्सोऽपि विकारो भवितुमर्हतिएतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम्नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति; , आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति श्रुतेःयदि ह्यात्मापि विकारः स्यात् , तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात्तथा शून्यवादः प्रसज्येतआत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः ह्यात्मागन्तुकः कस्यचित् , स्वयंसिद्धत्वात् ह्यात्मा आत्मनः प्रमाणमपेक्ष्य सिध्यतितस्य हि प्रत्यक्षादीनि प्रमाणान्यसिद्धप्रमेयसिद्धये उपादीयन्ते ह्याकाशादयः पदार्थाः प्रमाणनिरपेक्षाः स्वयं सिद्धाः केनचिदभ्युपगम्यन्तेआत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति चेदृशस्य निराकरणं सम्भवतिआगन्तुकं हि वस्तु निराक्रियते, स्वरूपम् एव हि निराकर्ता तदेव तस्य स्वरूपम् ह्यग्नेरौष्ण्यमग्निना निराक्रियतेतथा अहमेवेदानीं जानामि वर्तमानं वस्तु, अहमेवातीतमतीततरं चाज्ञासिषम् , अहमेवानागतमनागततरं ज्ञास्यामि, इत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये ज्ञातुरन्यथाभावोऽस्ति, सर्वदा वर्तमानस्वभावत्वात्तथा भस्मीभवत्यपि देहे नात्मन उच्छेदः वर्तमानस्वभावादन्यथास्वभावत्वं वा सम्भावयितुं शक्यम्एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मानः, कार्यत्वं आकाशस्य

यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह -

न त्वविकृतमिति ।

दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह -

एतेनेति ।

विभक्तत्वेनेत्यर्थः ।

आत्मनि व्यभिचारं शङ्कते -

नन्विति ।

धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह -

नेति ।

अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम् , अतो नाज्ञानतत्सम्बन्धादौ व्यभिचारः ।

नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वम् , नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह -

आत्मन इति ।

इष्टप्रसङ्ग इति वदन्तं प्रत्याह -

आत्मत्वादिति ।

आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता मानाभावादित्यर्थः ।

किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह -

नह्यात्मेत्यादिना ।

कस्यचित्कारणस्यागन्तुकः कार्यो न हि । सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः ।

तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति -

न हीति ।

यदुक्तं सुरेश्वराचार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च ।

नन्वात्मनः स्वतः सिद्धौ प्रमाणवैयर्थ्यम् , तत्राह -

तस्येति ।

ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह -

न हीति ।

अतो न प्रमाणवैयर्थ्यमिति भावः ।

आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह -

आत्मा त्विति ।

अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् । ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः । तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् । अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति ।

स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह -

न चेति ।

जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपम् , तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात् , स्वस्य च स्वनिराकर्तृत्वायोगात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।

एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह -

तथाहमेवेति ।

ज्ञानज्ञेययोः सत्ताव्यभिचारेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।

मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह -

तथेति ।

उच्छेदो विनाशः । अन्यथास्वभावत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः ।

एवमात्मनः शून्यत्वनिरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तम् , ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह -

एवमिति ।

अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यादृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह -

कार्यत्वं चेति ।