यो विभक्तः स विकार इत्यन्वयमुक्त्वा यस्त्वविकारः स न विभक्तो यथात्मेति व्यतिरिकव्याप्तिमाह -
न त्वविकृतमिति ।
दिगादिषु व्यभिचारमाशङ्क्य पक्षसमत्वान्मैवमित्याह -
एतेनेति ।
विभक्तत्वेनेत्यर्थः ।
आत्मनि व्यभिचारं शङ्कते -
नन्विति ।
धर्मिसमानसत्ताकविभागस्य हेतुत्वात्परमार्थात्मनि विभागस्य कल्पितत्वेन भिन्नसत्ताकत्वान्न व्यभिचार इत्याह -
नेति ।
अत्र चाज्ञानान्यद्रव्यत्वं विशेषणम् , अतो नाज्ञानतत्सम्बन्धादौ व्यभिचारः ।
नन्वात्मा कार्यः, विभक्तत्वात् , वस्तुत्वाद्वा, घटवदित्याभासतुल्यमिदमनुमानमित्याशङ्क्यात्मनः परमकारणत्वेन श्रुतस्य कार्यत्वे शून्यताप्रसङ्ग इति बाधकसत्त्वात्तस्याभावत्वम् , नात्र किञ्चिद्बाधकमस्ति प्रत्युत आकाशस्याकार्यत्वे नित्यानेकद्रव्यकल्पना श्रौतप्रतिज्ञाहान्यादयो बाधकाः सन्तीति नाभासतुल्यतेत्याह -
आत्मन इति ।
इष्टप्रसङ्ग इति वदन्तं प्रत्याह -
आत्मत्वादिति ।
आत्माभावः केन चिज्ज्ञायते न वा । आद्ये यो ज्ञाता स परिशिष्यत इति न शून्यता । द्वितीयेऽपि न शून्यता मानाभावादित्यर्थः ।
किञ्च यद्धि कार्यं सत्तास्फूर्त्योरन्यापेक्षं तन्निराकार्यम् , आत्मा त्वकार्यो निरपेक्षत्वान्न बाधयोग्य इत्याह -
नह्यात्मेत्यादिना ।
कस्यचित्कारणस्यागन्तुकः कार्यो न हि । सत्तास्फूर्त्योः सिद्ध्योरनन्यायत्तत्वादित्यक्षरार्थः ।
तत्र स्फूर्तेरनन्यायत्तत्वं विवृणोति -
न हीति ।
यदुक्तं सुरेश्वराचार्यैः 'प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात्सिध्यन्ति तत्सिद्धौ किमपेक्ष्यते ।' इति । यथा श्रुतिराह 'पुरुषः स्वयं ज्योतिः', 'तस्य भासा सर्वमिदं विभाति' इति च ।
नन्वात्मनः स्वतः सिद्धौ प्रमाणवैयर्थ्यम् , तत्राह -
तस्येति ।
ननु प्रमेयस्यापि स्वप्रकाशत्वं किं न स्यादित्यत आह -
न हीति ।
अतो न प्रमाणवैयर्थ्यमिति भावः ।
आत्मापि मानाधीनसिद्धिकः किं न स्यादित्यत आह -
आत्मा त्विति ।
अयमर्थः - निश्चितसत्ताकं हि ज्ञानं प्रमेयसत्तानिश्चायकम् , गेहे घटो दृष्टो न वेति ज्ञानसंशये न दृष्ट इति व्यतिरेकनिश्चये चार्थस्वरूपनिश्चयात् । ज्ञानसत्तानिश्चयश्च न स्वतः, कार्यस्य स्वप्रकाशत्वायोगात् । नापि ज्ञानान्तरात् , अनवस्थानात् । अतः साक्षिणैव ज्ञानसत्तानिश्चयो वाच्यः । तत्र साक्षिणश्चेज्ज्ञानाधीनसत्तानिश्चयः, अन्योन्याश्रयः स्यात् । अतः सर्वसाधकत्वादात्मा स्वतः सिद्ध इति ।
स्वप्रकाशस्यापि बाधः किं न स्यादित्यत आह -
न चेति ।
जडं हि परायत्तप्रकाशत्वादागन्तुकं बाधयोग्यं न प्रकाशात्मस्वरूपम् , तस्य सर्वबाधसाक्षिस्वरूपस्य निराकर्त्रन्तराभावात् , स्वस्य च स्वनिराकर्तृत्वायोगात् । न हि सुनिपुणेनापि स्वाभावो द्रष्टुं शक्यत इत्यर्थः ।
एवं स्वतः स्फूर्तित्वादात्मा न बाध्य इत्युक्त्वा स्वतः सत्ताकत्वाच्च न बाध्य इत्याह -
तथाहमेवेति ।
ज्ञानज्ञेययोः सत्ताव्यभिचारेऽपि ज्ञातुः सदैकरूपत्वान्न सत्ताव्यभिचार इत्यर्थः ।
मास्तु जीवतो ज्ञातुरन्यथास्वभावः, मृतस्य तु स्यादित्यत आह -
तथेति ।
उच्छेदो विनाशः । अन्यथास्वभावत्वं मिथ्यात्वं वा सम्भावयितुमपि न शक्यम् , अहमस्मीत्यनुभवसिद्धसत्स्वभावस्य बाधकाभावादित्यर्थः ।
एवमात्मनः शून्यत्वनिरासेन शून्यताप्रसङ्गस्यानिष्टत्वमुक्तम् , ततश्चात्मनः कार्यत्वनुमानमाभास इत्याह -
एवमिति ।
अकार्यात्मनः सिद्धौ तस्याविद्यासहितस्योपादानस्यादृष्टादिनिमित्तस्य च सत्त्वादाकाशानुत्पत्तिहेतोः सामग्रीशून्यत्वस्य स्वरूपासिद्धेरुक्तसत्प्रतिपक्षबाधाच्चाकाशस्य कार्यत्वं निरवद्यमित्याह -
कार्यत्वं चेति ।