ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते — न तावत्समानजातीयमेवारभते, न भिन्नजातीयमिति नियमोऽस्ति । न हि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात् । न च निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमोऽस्ति । स्यादेतत् — समवायिकारणविषय एव समानजातीयत्वाभ्युपगमः, न कारणान्तरविषय इति; तदप्यनैकान्तिकम् । सूत्रगोवालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते । तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते । सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यम् , सर्वस्य सर्वेण समानजातीयत्वात् । नाप्यनेकमेवारभते, नैकम् — इति नियमोऽस्ति । अणुमनसोराद्यकर्मारम्भाभ्युपगमात् । एकैको हि परमाणुर्मनश्चाद्यं कर्मारभते, न द्रव्यान्तरैः संहत्य — इत्यभ्युपगम्यते । द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् , न । परिणामाभ्युपगमात् । भवेदेष नियमः — यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत । तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते । तच्च क्वचिदनेकं परिणमते मृद्बीजादि अङ्कुरादिभावेन । क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन । नेश्वरशासनमस्ति — अनेकमेव कारणं कार्यं जनयतीति । अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते । तथा चोक्तम् — ‘उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’ (ब्र. सू. २ । १ । २४) इति ॥

आत्माविद्ययोर्विजातीयत्वान्नाकाशारम्भकत्वमित्युक्तमनूद्य निरस्यति -

यत्त्वित्यादिना ।

किं कारणमात्रस्य साजात्यनियम उत समवायिनः । तत्राद्यं निरस्य द्वितीयं शङ्कते -

स्यादेतदिति ।

किं समवायितावच्छेदकधर्मेण साजात्यमुत सत्त्वादिना । नाद्य इत्याह -

तदपीति ।

न च रज्जवादि न द्रव्यान्तरमिति वाच्यम् , पटादेरपि तथात्वापातात् ।

द्वितीयोऽस्मदिष्टः, आत्माविद्ययोर्वस्तुत्वेन साजात्यादित्याह -

सत्त्वेति ।

उपादानस्य साजात्यनियमं निरस्य संयुक्तानेकत्वनियममद्वितीयस्यासङ्गस्याप्यात्मन उपादानत्वसिद्धये निरस्यति -

नापीत्यादिना ।

किमारम्भकमात्रस्यायं नियम उत द्रव्यारम्भकस्य । नाद्य इत्याह -

अण्विति ।

द्ध्वयणुकस्य ज्ञानस्य चासमवायिकारणसंयोगजनकमाद्यं कर्म ।

यद्यप्यदृष्टवदात्मसंयुक्ते अणुमनसी आद्यकर्मारम्भके तथापि कर्मसमवायिन एकत्वादनेकत्वनियमभङ्ग इत्याह -

एकैको हीति ।

द्रव्यान्तरैः । समवायिभिरित्यर्थः ।

द्वितीयमुत्थाप्यारम्भवादानङ्गीकारेण दूषयति -

द्रव्येत्यादिना ।

न त्वभ्युपगम्यते तस्मान्नैष नियम इति शेषः । यत्तु क्षीरपरमाणुषु रसान्तरोत्पत्तौ तैरेव दध्यारम्भ इति । तन्न । क्षीरनाशे मानाभावात् , रसवद्दध्नोऽप्येकद्रव्यारभ्यत्वसम्भवाच्च, द्रव्यगुणसङ्केतस्य पौरुषेयस्य श्रुत्यर्थनिर्णयाहेततुत्वादिति भावः ।

लोके कर्तु सहायदर्शनादसहायाद्ब्रह्मणः कथं सर्ग इति, तत्राह -

तथा चोक्तमिति ।