ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
यावद्विकारं तु विभागो लोकवत् ॥ ७ ॥
यच्चोक्तम् आकाशस्योत्पत्तौ पूर्वोत्तरकालयोर्विशेषः सम्भावयितुं शक्यत इति, तदयुक्तम्येनैव विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते, एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यतेयथा ब्रह्म स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि स्वभाववदनाकाशमिति श्रुतेरवगम्यतेतस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम्यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति, तदप्यसत् , श्रुतिविरोधे सत्युत्पत्त्यसम्भवानुमानस्याभासत्वोपपत्तेःउत्पत्त्यनुमानस्य दर्शितत्वात्अनित्यमाकाशम् , अनित्यगुणाश्रयत्वात् , घटादिवदित्यादिप्रयोगसम्भवाच्चआत्मन्यनैकान्तिकमिति चेत् , तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेःविभुत्वादीनां आकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात्यच्चोक्तमेतत्शब्दाच्चेतितत्रामृतत्वश्रुतिस्तावद्वियतिअमृता दिवौकसःइतिवद्द्रष्टव्या , उत्पत्तिप्रलययोरुपपादितत्वात्आकाशवत्सर्वगतश्च नित्यः’ (शत. ब्रा. १० । ६ । ३ । २) इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय, आकाशसमत्वाययथाइषुरिव सविता धावतिइति क्षिप्रगतित्वायोच्यते, इषुतुल्यगतित्वायतद्वत्; एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता; ‘ज्यायानाकाशात्इत्यादिश्रुतिभ्यश्च ब्रह्मणः सकाशादाकाशस्योनपरिमाणत्वसिद्धिः तस्य प्रतिमास्ति’ (श्वे. उ. ४ । १९) इति ब्रह्मणोऽनुपमानत्वं दर्शयतिअतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति ब्रह्मणोऽन्येषामाकाशादीनामार्तत्वं दर्शयतितपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसम्भवश्रुत्यनुमानाभ्यां परिहृतम्तस्माद्ब्रह्मकार्यं वियदिति सिद्धम् ॥ ७ ॥

प्रागभावशून्यत्वहेतुरप्यसिद्ध इत्याह -

यच्चोक्तमित्यादिना ।

शब्दाश्रयत्वं विशेषः । शब्दादिमानाकाशः प्रलये नास्ति, 'नासीद्रजो नो व्योम' इति श्रुतेः । नन्वाकाशाभावे काठिन्यं स्यादिति चेत् । सुशिक्षितोऽयं नैयायिकतनयः । न ह्याकाशाभावस्तद्धर्मो वा काठिन्यं किन्तु मूर्तद्रव्यविशेषस्तत्संयोगविशेषो वा काठिन्यम् , तच्च प्रलये नास्तीति भावः ।

'आकाशशरीरं ब्रह्म' इति श्रुतेरग्न्यौष्ण्यवद्ब्रह्मस्वभावस्याकाशस्य सति ब्रह्मणि कथमभावः, तत्राह -

यथा चेति ।

विभुत्वादाकाशसमं ब्रह्मेति श्रुत्यर्थः ।

विभुत्वात्स्पर्शद्रव्यत्वनिरवयवद्रव्यत्वलिङ्गानां विभक्तत्वादिलिङ्गसहितागमबाधमाह -

यदपीत्यादिना ।

धर्मिविकाराभावे गुणनाशो न स्यादिति तर्कार्थमनित्यपदम् । गुणाश्रयत्वमेव हेतुः । तच्च स्वसमानसत्ताकगुणवत्त्वम् , अतो निर्गुणात्मनि न व्यभिचारः । भूतत्वमादिशब्दार्थः ।

स्वरूपासिद्धिमप्याह -

विभुत्वादीनां चेति ।

सर्वमूर्तद्रव्यसंयोगः परिमाणविशेषो वा विभुत्वं निर्गुणात्मनि दृष्टान्ते नास्ति । संयोगस्य सावयवत्वनियतस्याजत्वसाध्यविरुद्धता च । स्वरूपोपचयरूपं तु विभुत्वमात्माकाशयोर्न समम् , 'ज्यायानाकाशात्' इति श्रुतेः । क्वचिदाकाशसाम्यं तु ब्रह्मणो यत्किञ्चिद्धर्मसम्बन्धेन व्यपदिश्यते । असक्तत्वेन वा । पञ्चीकरणादस्पर्शत्वमसिद्धम् , कार्यद्रव्यत्वान्निरवयवत्वमप्यसिद्धम् , द्रव्यत्वजातिश्चात्मन्यसिद्धेत्यर्थः । नित्य इत्यंशेन साम्यं न विवक्षितम् ।

ननु 'स यथानन्तोऽयमाकाश एवमनन्त आत्मा' इति श्रुतिर्नित्यत्वेनैव साम्यं ब्रूते, नेत्याह -

एतेनेति ।

आकाशस्य कार्यत्वेनानित्यत्वादित्यर्थः । श्रुतिस्त्वापेक्षिकानन्त्यद्वारा मुख्यानन्त्यं बोधयतीति भावः ।

न्यूनत्वाच्चाकाशस्य न मुख्योपमानत्वमित्याह -

ज्यायानिति ।

मुख्योपमानासत्त्वे श्रुतिः 'न तस्य' इति । तस्मादाकाशस्योपमानत्वमात्रेण नित्यत्वं नास्तीति भावः ।

अनित्यत्वेनासत्त्वे श्रुतिमाह -

अतोऽन्यदिति ।

यत्त्वेकस्यैव सम्भूतशब्दस्य गौणत्वं मुख्यत्वं चेति । तन्न । आकाशेऽपि तस्य मुख्यत्वसम्भवादित्याह -

तपसीति ।

बलवत्तित्तिरिश्रुत्या छान्दोग्यश्रुतेर्नयनादेकवाक्यतया स्रष्टरि ब्रह्मात्मनि समन्वय इत्युपसंहरति -

तस्मादिति ॥७॥