असम्भवस्तु सतोऽनुपपत्तेः ।
'अनाद्यनन्तं महतः परं ध्रुवम् ', 'न चास्य कश्चिज्जनिता' इत्यादि ब्रह्मानादित्वश्रुतीनां 'त्वं जातो भवसि विश्वतोमुखः' इत्युत्पत्तिश्रुत्या विरोधोऽस्ति न वेत्येकवाक्यत्वभावाभावाभ्यां सन्देहेऽस्ति विरोध इति पूर्वपक्षे यथा वाय्वादेरमृतत्वादिकमुत्पत्तिश्रुतिबलादापेक्षिकं तथा ब्रह्मानादित्वमापेक्षिकमिति दृष्टान्तसङ्गत्या एकदेशिपक्षं प्रापयति -
वियदिति ।
ब्रह्म कुतश्चिज्जायते, कारणत्वात् , आकाशवादित्यनुमानानुग्रहाज्जन्मश्रुतिर्बलीयसीत्याह -
तथेति ।
न चानादिकारणाभावेनानवस्था बीजाङ्कुरवदनादित्वोपपत्तेः । तथा च दीपाद्दीपवद्ब्रह्मान्तराद्ब्रह्मान्तरोत्पत्तिः, उत्पत्तिश्रुत्या चानादित्वश्रुतिर्नेयेत्यनाद्यनन्तब्रह्मसमन्वयासिद्धिरिति प्राप्ते मुख्यसिद्धान्तमाह -
तामिति ।