ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तेजोऽतस्तथाह्याह ॥ १० ॥
एवं प्राप्ते, उच्यतेतेजः अतः मातरिश्वनः जायत इतिकस्मात् ? तथा ह्याह — ‘वायोरग्निःइतिअव्यवहिते हि तेजसो ब्रह्मजत्वे सति, असति वायुजत्वेवायोरग्निःइतीयं श्रुतिः कदर्थिता स्यात्ननु क्रमार्थैषा भविष्यतीत्युक्तम्; नेति ब्रूमःतस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति पुरस्तात् सम्भवत्यपादानस्य आत्मनः पञ्चमीनिर्देशात् , तस्यैव सम्भवतेरिहाधिकारात् , परस्तादपि तदधिकारे पृथिव्या ओषधयः’ (तै. उ. २ । १ । १) इत्यपादानपञ्चमीदर्शनात्वायोरग्निःइत्यपादानपञ्चम्येवैषेति गम्यतेअपि , वायोरूर्ध्वमग्निः सम्भूतःइति कल्प्यः उपपदार्थयोगः, कॢप्तस्तु कारकार्थयोगःवायोरग्निः सम्भूतः इतितस्मादेषा श्रुतिर्वायुयोनित्वं तेजसोऽवगमयतिनन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसोऽवगमयति — ‘तत्तेजोऽसृजतइति; ; तस्याः पारम्पर्यजत्वेऽप्यविरोधात्यदापि ह्याकाशं वायुं सृष्ट्वा वायुभावापन्नं ब्रह्म तेजोऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो विरुध्यते, यथातस्याः शृतम् , तस्या दधि, तस्या आमिक्षेत्यादिदर्शयति ब्रह्मणो विकारात्मनावस्थानम्तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इतितथा ईश्वरस्मरणं भवतिबुद्धिर्ज्ञानमसंमोहः’ (भ. गी. १० । ४) इत्याद्यनुक्रम्य भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ (भ. गी. १० । ५) इतियद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते, तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वा ईश्वरवंश्यत्वात्एतेनाक्रमसृष्टिवादिन्यः श्रुतयो व्याख्याताः; तासां सर्वथोपपत्तेः, क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेःप्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते, अव्यवहितजन्यत्वम्इत्यविरोधः ॥ १० ॥

सिद्धान्तयति -

एवं प्राप्त इति ।

कदर्थिता ।

बाधितार्थेति यावत् । वायोस्तेजःप्रकृतित्वं पञ्चमीश्रुत्या निर्धारितम् , न च कल्पितस्योपादानत्वासम्भवः, अधिष्ठानत्वासम्भवेऽपि मृदादिवत्परिणामित्वसम्भवात् , स्वतस्तु ब्रह्मणश्छान्दोग्ये स्रष्टृत्वमात्रं श्रुतं नोपादानत्वम् । न च 'बहु स्याम्' इति कार्याभेदे क्षणलिङ्गादुपादानत्वसिद्धिः लिङ्गाच्छ्रुतेर्बलीयस्त्वेन श्रुत्यविरोधेन लिङ्गस्य नेयत्वात् । नयनं चेत्थं वायोर्ब्रह्मानन्यत्वाद्वायुजस्यापि तेजसो ब्रह्मप्रकृतिकत्वमविरुद्धमिति सिद्धान्तग्रन्थाशयः ।

इहाधिकारादिति ।

वायोरग्निः सम्भूत इति वाक्ये सम्बन्धादित्यर्थः । तदधिकारे सम्भूत्यधिकारे ।

निरपेक्षकारकविभक्तेरूपपदसापेक्षविभक्त्यपेक्षया प्रबलत्वाच्च न क्रमार्था पञ्चमीत्याह -

अपि चेति ।

ऊर्ध्वमनन्तरमिति वोपपदं विना पञ्चमीमात्रात्क्रमो न भातीति कल्प्य उपपदार्थयोगः । प्रकृत्याख्यापादानकारकं तु निरपेक्षपञ्चम्या भाति । विशेषतोऽत्र प्रकरणादपादानार्थत्वं पञ्चम्याः कॢप्तं कॢप्तेन च कल्प्यं सति विरोधे बाध्यमिति स्थितिरित्यर्थः ।

पारम्पर्यजत्वमेवाह -

यदापीति ।

तस्या धेनोः शृतं तप्तं क्षीरं साक्षात्कार्यम् , दध्यादिकं तु पारम्पर्यजमित्यर्थः । दधिसंसृष्टं कठिनक्षीरमामिक्षा ।

ब्रह्मणे वायुभावे मानमाह -

दर्शयति चेति ।

पारम्पर्यजस्यापि तज्जत्वव्यपदेशे स्मृतिमाह -

तथा चेति ।

अन्तःकरणादिभ्यो जायमानबुद्ध्यादीनां मत्त एवेत्यवधारणं कथमित्याशङ्क्याह -

यद्यपीत्यादिना ।

प्रनाड्या परम्परयेश्वरवंश्यत्वात्तज्जत्वात्परमकारणान्तरनिरासार्थमवधारणं युक्तमिति शेषः ।

एतत्पदार्थमाह -

तासामिति ।

'तज्जलान्' इत्याद्युक्तश्रुतीनां साक्षात्प्रनाड्या वा ब्रह्मजत्वमात्रेणोपपत्तेरित्यर्थः । अक्रमश्रुतीनां बलवत्क्रमश्रुत्यनुसारेणेकवाक्यत्वाद्वियद्वायुद्वारा तेजःकारणे ब्रह्मणि इति सिद्धम् ॥१०॥