ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
आपः ॥ ११ ॥
अतस्तथा ह्याहइत्यनुवर्ततेआपः, अतः तेजसः, जायन्तेकस्मात् ? तथा ह्याह — ‘तदपोऽसृजतइति, ‘अग्नेरापःइति सति वचने नास्ति संशयःतेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन् , अपोऽन्तरयामितिआपःइति सूत्रयांबभूव ॥ ११ ॥

आपः ।

अतिदेशोऽयम् ।

तथा ह्याथर्वणे मुण्डकग्रन्थे 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणिच । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी' इति मन्त्रेऽपां ब्रह्मजत्वं श्रुतम् । 'अग्नेरापः' इति श्रुत्या तस्य विरोधोऽस्ति न वेति सन्देहे तुल्यत्वादस्ति विरोध इति पूर्वपक्षे अपामग्निदाह्यत्वेन विरोधादग्निजत्वासम्भवात्क्रमार्था पञ्चमीत्यविरोध इत्यधिकाशङ्कायामुक्ततेजोन्यायमतिदिश्य व्याचष्टे -

अत इति ।

प्रत्यक्षविरोधे कथमपामग्निजत्वनिर्णयः, तत्राह -

सति वचन इति ।

त्रिवृत्कृतयोरप्तेजसोर्विरोधेऽप्यग्नेराप इति वचनादतीन्द्रिययोस्तयोर्नास्ति विरोध इति निर्णीयत इत्यर्थः ।

न केवलं श्रुत्यविरोधज्ञानायायमतिदेशः किन्तु पञ्चभूतोत्पत्तिक्रमनिर्णयार्थं चेत्याह -

तेजसस्त्विति ।

तस्मात्तेजोभावापन्ने ब्रह्मणि श्रुतिसमन्वय इति सिद्धम् ॥११॥