ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
तदभिध्यानादेव तु तल्लिङ्गात्सः ॥ १३ ॥
एवं प्राप्ते, अभिधीयते एव परमेश्वरस्तेन तेन आत्मना अवतिष्ठमानोऽभिध्यायन् तं तं विकारं सृजतीतिकुतः ? तल्लिङ्गात्तथा हि शास्त्रम्यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति’ (बृ. उ. ३ । ७ । ३) इत्येवंजातीयकम्साध्यक्षाणामेव भूतानां प्रवृत्तिं दर्शयतितथा सोऽकामयत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इति प्रस्तुत्य, सच्च त्यच्चाभवत्’ (तै. उ. २ । ६ । १) , तदात्मानꣳ स्वयमकुरुत’ (तै. उ. २ । ७ । १) इति तस्यैव सर्वात्मभावं दर्शयतियत्तु ईक्षणश्रवणमप्तेजसोः, तत्परमेश्वरावेशवशादेव द्रष्टव्यम्नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) इतीक्षित्रन्तरप्रतिषेधात् , प्रकृतत्वाच्च सत ईक्षितुः तदैक्षत बहु स्यां प्रजायेयेति’ (तै. उ. २ । ६ । १) इत्यत्र ॥ १३ ॥

मुख्यसिद्धान्तमाह -

एवं प्राप्त इति ।

आकाशादिशब्दैर्न देवतालक्षणा मुख्यार्थे बाधकाभावात्पञ्चम्यश्च प्रकृतित्वार्थास्तत्र रूढतरत्वात् , तथा चाचेतनानां भूतानां कर्तृत्वमेव नास्ति, कुत ईश्वरानपेक्षकर्तृत्वम् ।

यद्यपि देवतानां कर्तृत्वं सम्भवति तथापीश्वरनियम्यत्वश्रवणाच्चेतनानामपि न स्वातन्त्र्यम् , किमु वाच्यमचेतनानां भूतानां न स्वातन्त्र्यमिति मत्वोक्तम् -

तल्लिङ्गादिति ।

तत्तदचेतनात्मनावस्थितस्य ब्रह्मण उपादानत्वेऽपि जीवव्यावृत्तेश्वरत्वाकारेणैव साक्षात्सर्वकर्तृत्वं न जीवत्वद्वारा तस्य सर्वनियन्तृत्वाल्लिङ्गादित्यर्थः ।

प्रकरणाच्च साक्षात्सर्वकर्तृत्वमित्याह -

तथेति ।

पूर्वोक्तमनूद्य निरस्यति -

यत्त्विति ।

परमेश्वरस्यान्तर्यामिभावेनावेशः सम्बन्धस्तद्वशाद्भूतेष्वीक्षणश्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः । अनेन 'तदभिध्यानात्' इति पदं व्याख्यातम् । इत्थं सूत्रयोजना - स ईश्वरस्तत्तदात्मना स्थितोऽपि साक्षादेव सर्वकर्ता तस्यान्तर्यामित्वलिङ्गात् । जीवत्वद्वारा कर्तृत्वं नाम जीवस्यैव कर्तृत्वमित्यन्तर्यामिणः कर्तृत्वासिद्धेरन्तर्यामित्वायोगात्तदभिध्यानादीश्वरेक्षणादेव भूतेषु श्रुतेक्षणोपपत्तेश्चेति ।

तत्तेज ऐक्षतेति श्रुत ईक्षिता परमात्मैवेत्यत्र श्रुत्यन्तरं प्रकरणं चाह -

नान्य इति ।

तस्मादीश्वरपदार्थलोपप्रसङ्गेनेश्वरादन्यस्य स्वातन्त्र्याभावान्नेश्वरकर्तृत्वश्रुतेर्भूतश्रुत्या विरोध इति सिद्धम् ॥१३॥