ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःतृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
भूतानामुत्पत्तिक्रमश्चिन्तितःअथेदानीम् अप्ययक्रमश्चिन्त्यतेकिमनियतेन क्रमेणाप्ययः, उत उत्पत्तिक्रमेण, अथवा तद्विपरीतेनेतित्रयोऽपि उत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्तेयतो वा इमानि भूतानि जायन्तेयेन जातानि जीवन्तियत्प्रयन्त्यभिसंविशन्ति’ (तै. उ. ३ । १ । १) इतितत्रानियमोऽविशेषादिति प्राप्तम्अथवा उत्पत्तेः क्रमस्य श्रुतत्वात्प्रलयस्यापि क्रमाकाङ्क्षिणः एव क्रमः स्यादिति

विपर्ययेण तु ।

यद्यप्यत्र श्रुतिविरोधो न परिह्रियत इत्यसङ्गतिस्तथाप्युत्पत्तिक्रमे निरूपिते लयक्रमो बुद्धिस्थो विचार्यत इति प्रासङ्गिक्यावेव पादावान्तरसङ्गती इति मत्वाह -

भूतानामिति ।

अत्रोत्पत्तिक्रमाद्विपरीतक्रमनिर्णयात्सिद्धान्ते भूतानां प्रातिलोम्येन लयध्यानपूर्वकं प्रत्यग्ब्रह्मणि मनःसमाधानं फलम् , पूर्वपक्षे तु कारणनाशे सति कार्यनाश इति सर्वलयाधारब्रह्मासिद्धेरुक्तसमाध्यसिद्धिरिति भेदः ।

सति महाभूतानां लये क्रमचिन्ता स एव नास्तीति केचित्तान्प्रत्याह -

त्रयोऽपीति ।

अनियम इत्यनास्थयोक्तं श्रौतस्य प्रलयस्य क्रमाकाङ्क्षायां श्रौत उत्पत्तिक्रम एव ग्राह्यः, श्रौतत्वेनान्तरङ्गत्वादित्येवं पूर्वपक्षः । सति कारणे कार्यं नश्यतीति लोके दृश्यते । तथा च श्रौतोऽप्युत्पत्तिक्रमो लये न गृह्यते किन्तु लौकिकक्रम एव गृह्यते श्रुतेर्लोकदृष्टपदार्थबोधाधीनत्वेन श्रौतादपि लौकिकस्यान्तरङ्गत्वाद्योग्यत्वाच्च । कारणमेव हि कार्यस्य स्वरूपमिति तदनन्यत्वन्यायेन स्थापितम् ।