विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ १४ ॥
एवं प्राप्तं ततो ब्रूमः — विपर्ययेण तु प्रलयक्रमः, अतः उत्पत्तिक्रमात् , भवितुमर्हति । तथा हि लोके दृश्यते — येन क्रमेण सोपानमारूढः, ततो विपरीतेन क्रमेणावरोहतीति । अपि च दृश्यते — मृदो जातं घटशरावादि अप्ययकाले मृद्भावमप्येति, अद्भ्यश्च जातं हिमकरकादि अब्भावमप्येतीति । अतश्चोपपद्यत एतत् — यत्पृथिवी अद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तौ अपः अपीयात् । आपश्च तेजसो जाताः सत्यः तेजः अपीयुः । एवं क्रमेण सूक्ष्मं सूक्ष्मतरं च अनन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् । न हि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः । स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः — ‘जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते’ इत्येवमादौ । उत्पत्तिक्रमस्तु उत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति; न च असौ अयोग्यत्वादप्ययेनाकाङ्क्ष्यते । न हि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः, कारणाप्यये कार्यस्यावस्थानानुपपत्तेः । कार्याप्यये तु कारणस्यावस्थानं युक्तम् — मृदादिष्वेवं दृष्टत्वात् ॥ १४ ॥